कैलासं सप्तवर्गं च ब्रह्मलोकमनामयम्
पादपद्मे पतन्तं च ददर्श विप्रपुङ्गवम्
नारायणवरेणैव बभूव विज्वरो द्विजः
राजा मुनीन्द्रं संप्राप्य भोजयामास पायसम्
राजानमाशिषं कृत्वा भुक्त्वा विप्रो गृहं ययौ
नश्यन्ति सर्वे प्रलये न मे भक्तः प्रणश्यति
त्वं च लक्ष्मीर्महामाया सावित्री वा सरस्वती
गोपाङ्गनाश्च गोपाश्च सर्वे प्रियतमा मम 4.50.
दत्त्वा सुदर्शनं चक्रं भक्तानां रक्षणाय च
दुर्वाससो दर्पभङ्गः श्रुतो मत्तः सुरेश्वरि
श्रीराधिकोवाच पुराणे गोपनीयं च श्रोतुं कौतूहलं मम
श्रीनारायण उवाच कथां कथितुमारेभे श्रुतिरम्यां पुरातनीम्
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे दुर्वाससो दर्पभङ्गो नाम पञ्चाशत्तमोऽध्यायः
श्रीकृष्ण उवाच पुरा समुद्रमथने समुत्तस्थौ महोदधेः
सर्ववेदेषु निष्णातो मंत्रतन्त्रविशारदः
शिष्याणां च सहस्रेण गतः कैलासमीश्वरि
लक्षनागैः परिवृतं शूलतुल्यं विषोल्बणम्
दम्भी धन्वन्तरेः शिष्यो धृत्वा तक्षकमुल्बणम्
अमूल्यं मणिरत्नं च जहार मस्तके स्थितम्
निश्चेष्टस्तक्षकस्तस्थौ तत्र मार्गे यथा मृतः
वासुकिस्तत्समाकर्ण्य प्रज्वलन्नतिकोपतः
सर्पसेनाग्रणीनां च मुख्यान्पञ्च विशारदान्
सर्वे नागाः समाजग्मुर्यत्र धन्वन्तरिः स्वयम् 4.51.
नागनिश्वासवातेन सर्वे शिष्या मृता इव
धन्वन्तरिश्च भगवान्पीयूषवर्षणेन च
चेतनां कारयित्वा च शिष्याणां च जगद्गुरुः
सर्वे बभूवुर्निश्चेष्टा जृंभितास्ते मृता इव
वासुकिर्बुबुधे सर्वं सर्वज्ञः सर्वसंकटम्
वासुकिरुवाच जगत्त्रये महाभागे पूजा तव भविष्यति
वासुकेर्वचनं श्रुत्वा प्रहस्योवाच कन्यका