एतस्मिन्नन्तरे तत्र चाजगाम मुनिः स्वयम्
मां भोजय महाभागेत्येवं स नृपमुक्तवान्
सकेशं पायसं दृष्ट्वा राजानं शप्तुमुद्यतः
जटामध्यात्समुद्भूतो ज्वलदग्निशिखोपमः
नृपश्रेष्ठं स राजानं कोपेन हन्तुमुद्यतः
सस्मार च महाभीतो राजा मम पदाम्बुजम्
एतस्मिन्नन्तरे चक्रं दुर्निवार्यं सुदर्शनम्
आविर्बभूव सहसा सभामध्ये च घूर्णितम् 4.50.
सशैल सागरां पृथ्वीं काञ्चनीं भूमिमुत्तमाम्
धावन्तं मुक्तकेशं तं भीतं कातरमातुरम्
कैलासं सप्तवर्गं च ब्रह्मलोकमनामयम्
पादपद्मे पतन्तं च ददर्श विप्रपुङ्गवम्
नारायणवरेणैव बभूव विज्वरो द्विजः
राजा मुनीन्द्रं संप्राप्य भोजयामास पायसम्
राजानमाशिषं कृत्वा भुक्त्वा विप्रो गृहं ययौ
नश्यन्ति सर्वे प्रलये न मे भक्तः प्रणश्यति
त्वं च लक्ष्मीर्महामाया सावित्री वा सरस्वती
गोपाङ्गनाश्च गोपाश्च सर्वे प्रियतमा मम 4.50.
दत्त्वा सुदर्शनं चक्रं भक्तानां रक्षणाय च
दुर्वाससो दर्पभङ्गः श्रुतो मत्तः सुरेश्वरि
श्रीराधिकोवाच पुराणे गोपनीयं च श्रोतुं कौतूहलं मम
श्रीनारायण उवाच कथां कथितुमारेभे श्रुतिरम्यां पुरातनीम्
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे दुर्वाससो दर्पभङ्गो नाम पञ्चाशत्तमोऽध्यायः
श्रीकृष्ण उवाच पुरा समुद्रमथने समुत्तस्थौ महोदधेः
सर्ववेदेषु निष्णातो मंत्रतन्त्रविशारदः
शिष्याणां च सहस्रेण गतः कैलासमीश्वरि
लक्षनागैः परिवृतं शूलतुल्यं विषोल्बणम्
दम्भी धन्वन्तरेः शिष्यो धृत्वा तक्षकमुल्बणम्
अमूल्यं मणिरत्नं च जहार मस्तके स्थितम्
निश्चेष्टस्तक्षकस्तस्थौ तत्र मार्गे यथा मृतः