सूर्यः प्रणम्य ब्रह्माणं मुदायुक्तस्तदाज्ञया
अथ वह्नेरुपाख्यानं सावधानं निशामय
त्रैलोक्यं भस्मसात्कर्तुमेकदाऽग्निः समुद्यतः
क्षुभितः कुपितश्चैव भृगोः शापस्य कारणात्
एतस्मिन्नन्तरे विष्णुराजगामावलीलया
मायया शिशुरूपी च तमुवाच जनार्दनः
शिशुरुवाच त्रैलोक्यं भस्मसात्कर्तुमुद्यतोऽसि निरर्थकम्
त्वमेव भृगुणा शप्तो भृगोश्च दमनं कुरु
विश्वं च ब्रह्मणा सृष्टं तस्य पाता स्वयं हरिः
तत्कथं भस्मसात्कर्तुमीश्वरे शंकरे स्थिते 4.49.
इत्युक्त्वा ब्राह्मणबटुः शरपत्रं पुरः स्थितम्
दृष्ट्वा शुष्केन्धनो वह्निर्लेलिहानो भयानकः
न च दग्धं शुष्कपत्रं लोमैकं च शिशोस्तथा
कृत्वा वह्नेर्दर्पभङ्गमन्तर्धानं चकार सः
उक्तो वह्नेर्दर्पभङ्गः परं वै श्रोतुमिच्छसि
श्रीराधिकोवाच कथापीयूषधारांते श्रुत्वा तृप्येत को भुवि
श्रीनारायण उवाच कथां कथितुमारेभे श्रुत्वा रम्यां पुरातनीम्
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे अग्निदर्पमोचनं नामैकोनपञ्चाशत्तमोऽध्यायः
दुर्वाससो दर्पभङ्गं कथयामि शृणु प्रिये
एकदा चाम्बरीषश्च कृत्वा च द्वादशीव्रतम्
एतस्मिन्नन्तरे तत्र चाजगाम मुनिः स्वयम्
मां भोजय महाभागेत्येवं स नृपमुक्तवान्
सकेशं पायसं दृष्ट्वा राजानं शप्तुमुद्यतः
जटामध्यात्समुद्भूतो ज्वलदग्निशिखोपमः
नृपश्रेष्ठं स राजानं कोपेन हन्तुमुद्यतः
सस्मार च महाभीतो राजा मम पदाम्बुजम्
एतस्मिन्नन्तरे चक्रं दुर्निवार्यं सुदर्शनम्
आविर्बभूव सहसा सभामध्ये च घूर्णितम् 4.50.
सशैल सागरां पृथ्वीं काञ्चनीं भूमिमुत्तमाम्
धावन्तं मुक्तकेशं तं भीतं कातरमातुरम्