इत्येवं कथितं सर्वं शक्रदर्पविमोचनम् 4.47.
श्रीराधिकोवाच दर्पभङगं रवेश्चापि श्रोतुमिच्छामि तत्त्वतः
श्रीकृष्ण उवाच माली सुमाली दैत्येन्द्रौ दीप्तिं कर्तुं समुद्यतौ
महासंपन्मदोन्मत्तौ शंकरस्य वरेण च
रुष्टः सूर्यः स्वशूलेन तौ जघानावलीलया
भक्तापायं च विज्ञाय शंकरो भक्तवत्सलः
तौ च नत्वा शिवं भक्त्या जग्मतुर्निजमन्दिरम्
दृष्ट्वा संहारकर्तारं जिघांसन्तं हरं रविः
दुद्राव च महादेवो ब्रह्मणो निलयं रुषा
दृष्ट्वा ब्रह्मा हरं रुष्टं तुष्टाव परमेश्वरम्
ब्रह्मोवाच त्वयैव सृष्टं सृष्टेश्च समारम्भे जगद्गुरो ।। 4.48.
आशुतोष महाभाग प्रसीद भक्तवत्सल
ब्रह्मस्वरूप भगवन्सृष्टिस्थित्यन्तकारण
स्वयं ब्रह्मा स्वयं शेषो धर्मः सूर्यो हुताशनः
ऋषयो मुनयश्चैव त्वां निषेव्य तपोधनाः
इत्येवमुक्त्वा ब्रह्मा तं सूर्यमानीय भक्तितः
शंभुस्तमाशिषं कृत्वा विधिं नत्वा जगद्विधिः
इति धातृकृतं स्तोत्रं संकटे यः पठेन्नरः
राजद्वारे श्मशाने च मग्नपोते महार्णवे
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे श्रीकृष्णराधासंवादे अष्टचत्वारिंशोऽध्यायः
सूर्यः प्रणम्य ब्रह्माणं मुदायुक्तस्तदाज्ञया
अथ वह्नेरुपाख्यानं सावधानं निशामय
त्रैलोक्यं भस्मसात्कर्तुमेकदाऽग्निः समुद्यतः
क्षुभितः कुपितश्चैव भृगोः शापस्य कारणात्
एतस्मिन्नन्तरे विष्णुराजगामावलीलया
मायया शिशुरूपी च तमुवाच जनार्दनः
शिशुरुवाच त्रैलोक्यं भस्मसात्कर्तुमुद्यतोऽसि निरर्थकम्
त्वमेव भृगुणा शप्तो भृगोश्च दमनं कुरु
विश्वं च ब्रह्मणा सृष्टं तस्य पाता स्वयं हरिः
तत्कथं भस्मसात्कर्तुमीश्वरे शंकरे स्थिते 4.49.