सर्वेषामाश्रमाणां च प्रधानः पुण्यवान्गृही
पितरः पूर्वकाले च तिथिकाले च देवताः
नित्यं नैमित्तिकं काम्यं कुर्वन्ति गृहिणः सदा 1.23.
जीवन्मुक्तो गृहस्थश्च स्वधर्मपरिपालकः
यशस्वी कीर्तिमान्यो हि मृतो जीवति सन्ततम्
ब्रह्मणो वचनं श्रुत्वा नारदो मुनिसत्तमः
नारद उवाच हानिर्बभूव दैवेन महती वाऽयशस्करी
मया प्राप्तं च त्वच्छापाद्गान्धर्वं शौद्रमेव च
बभूव शापो मुक्तो मे काले ते भविता विधे
स पिता स गुरुर्बन्धुः स पुत्रः समधीश्वरः
असद्वर्त्मनि चाज्ञानाद्गच्छन्ति यदि बालकाः
कारयित्वा कृष्णपादे भक्तित्यागं च यः पिता
दारग्रहो हि दुःखाय केवलं न सुखाय च 1.23.
योषितस्त्रिविधा ब्रह्मन्गृहिणां मूढचेतसाम्
परलोकभिया साध्वी तथेह यशसाऽऽत्मनः
भोग्या भोगार्थिनी शश्वत्कामस्नेहेन केवलम्
वस्त्रालंकारसम्भोगसुस्निग्धाहारमुत्तमम्
कुलाङ्गारसमा नारी कुलटा कुलनाशिनी
सदा पुंयोगमाशंसुर्मनसा मदनातुरा
जारार्थे स्वपतिं तात हन्तुमिच्छति पुंश्चली
कथिता योषितः सर्वा उत्तमाधममध्यमाः
हृदयं क्षुरधाराभं शरत्पद्मोत्सवं मुखम्
प्रकोपे विषतुल्यं च विश्वासे सर्वनाशनम् 1.23.
सदा तासामविनयः प्रबलं साहसं परम्
पुंसश्चाष्टगुणः कामः शश्वत्कामो जगद्गुरो
कोपः पुंसः षड्गुणश्च व्यवसायश्च निश्चितम्
का क्रीडा किं सुखं पुंसो विण्मूत्रमलवेश्मनि
धनक्षयोऽतिप्रीतौ चात्यासक्तौ च वपुःक्षयः सर्वनाशश्च विश्वासे ब्रह्मन्नारीषु किं सुखम्
यावद्धनी च तेजस्वी सश्रीको योग्यतापरः
रोगिणं निर्द्धनं वृद्धं योषिद्वै प्रेक्षतेऽप्रियम्