वयसाऽतिशिशुर्बुद्ध्या ज्ञानवृद्ध्या विचक्षणः
इंद्रद्वारे समुत्तिष्ठन्द्वारपालमुवाच ह
इत्येवं वचनं श्रुत्वा द्वारि ज्ञानं चकार तम्
बालकानां बालिकानां समूहैः परिवेष्टितम् 4.47.
प्रणनाम हरिर्भक्त्या तं हरिं शिशुरूपिणम्
मधुपर्कादिकं दत्त्वा शक्रः पूजां चकार तम्
इंद्रस्य वचनं श्रुत्वा तमुवाच द्विजार्भकः
कतिवर्षं च निर्माणे भवान्संकल्पितो यथा
एवंभूतं च निर्माणं न केनैंद्रेण निर्मितम्
बालकस्य वचः श्रुत्वा जहास स सुरेश्वरः
कतींद्राणां समूहश्च त्वया दृष्टः श्रुतोऽथवा
शक्रस्य वचनं श्रुत्वा प्रहस्य विप्रबालकः
जानामि कश्यपं तात तव तातं प्रजापतिम् 4.47.
पिपीलिकासमूहं च व्यायतं धनुषां शतम् 4.47.
ब्राह्मण उवाच 4.47.
कर्मणा स्वाङ्गहीनश्च स्वाङ्गवृद्धश्च कर्मणा
सुखदं पुण्यदं सारं नरकार्णवतारकम् 4.47.
कटं कथं मस्तके ते लोमचक्रं च वक्षसि ।। 4.47.
दुर्लभं श्रीहरेर्दास्यं भक्तिर्मुक्तिर्गरीयसी 4.47.
विश्वकर्माणमानीय प्रियमुक्त्वा शतक्रतुः
इत्येवं कथितं सर्वं शक्रदर्पविमोचनम् 4.47.
श्रीराधिकोवाच दर्पभङगं रवेश्चापि श्रोतुमिच्छामि तत्त्वतः
श्रीकृष्ण उवाच माली सुमाली दैत्येन्द्रौ दीप्तिं कर्तुं समुद्यतौ
महासंपन्मदोन्मत्तौ शंकरस्य वरेण च
रुष्टः सूर्यः स्वशूलेन तौ जघानावलीलया
भक्तापायं च विज्ञाय शंकरो भक्तवत्सलः
तौ च नत्वा शिवं भक्त्या जग्मतुर्निजमन्दिरम्
दृष्ट्वा संहारकर्तारं जिघांसन्तं हरं रविः
दुद्राव च महादेवो ब्रह्मणो निलयं रुषा
दृष्ट्वा ब्रह्मा हरं रुष्टं तुष्टाव परमेश्वरम्