धावंतं परिधावंती बलिष्ठा हतचेतनम्
इंद्रो दृष्ट्वा च तां घोरां स्मारंस्मारं गुरोः पदम्
तत्र गंतुं न शक्ता सा ब्रह्मणः शापकारणात्
अथात्र नहुषो भूपस्त्रिलोकेशो बभूव ह
शची श्रुत्वा महाभीता तारकां शरणं ययौ
शचीमाश्वास्य स्वगुरुर्जगाम तत्सरो मुदा 4.47.
बृहस्पतिरुवाच त्वदीश्वरं स्वरेणैव निशामय भयं त्यज
सूक्ष्मरूपं परित्यज्य स्वरूपं च दधार सः
दृष्ट्वा ननाम संप्रीत्या संप्रीतं त्यक्तकोपकम्
निधाय वक्षसि प्रेम्णा रुरोद प्रेमविह्वलः पुटांजलिः पुलकितो भक्तिनम्रात्मकंधरः
भृत्यापराधं सततं न गृह्णाति सदीश्वरः
दुर्बलः सबलो वाऽपि को दंडं कर्तुमक्षमः
त्वत्प्रसादात्सुरश्रेष्ठ कृपया वर्द्धितस्त्वया
स्वयं विधातुः पौत्रश्च पुनः स्रष्टुं स्वयं क्षमः उवाच वचनं प्रीत्या प्रसन्नवदनेक्षणः
संप्राप्य परमैश्वर्यं पूर्वस्माच्च चतुर्गुणम्
हतशत्रुर्मत्प्रसादाद्गत्वा पश्य शचीं सतीम्
ददर्श पुरतो घोरां ब्रह्महत्यां सुदुःसहाम्
बृहस्पतिर्महाभीतः सस्मार मधुसूदनम्
स्वल्पाक्षरा च बह्वर्था तां शुश्राव बृहस्पतिः
राधिके वचनं श्रुत्वा शिष्यं रक्षाधुनेति च
चकार भस्मसात्तां च हुंकारेणैव लीलया
ददर्श च्छिन्नभग्नां च शत्रुणा वचनाद्गुरोः
प्रणम्य च गुरुं भक्त्या स्वकांतं प्रणनाम सा ऋषयो मुनयश्चैव हर्षगद्गदमानसाः
योजयामास सत्कारं निर्मातुममरावतीम् 4.47.
नानारत्नविचित्राढ्यां मणिरत्नेंद्रनिर्मिताम्
विश्वकर्मा गृहं गंतुं न शशाक विनाऽऽज्ञया
विज्ञाय तदभिप्रायं तमुवाच विधिः स्वयम्
श्रुत्वा तद्वचनं कारुः शीघ्रं प्रापामरावतीम्
हरिर्ब्रह्माणमाश्वास्य प्रस्थाप्य स्वगृहं च तम्
दण्डी छत्त्री शुक्लवासा बिभ्रत्तिलकमुज्ज्वलम्