अथ शक्रस्य वृत्तांतं परमं शृणु सुन्दरि
एकदा च गुरोः कोपात्प्रकृतेरवहेलनात्
शक्रस्त्यक्तगुरुर्दैवग्रस्तो दैत्यनिपीडितः
तदाज्ञया विश्वरूपं चकार च पुरोहितम्
दैत्यदौहित्रस्य भावं विज्ञाय च विचक्षणः
विश्वरूपपिता त्वष्टा श्रुत्वा सद्यश्चुकोप ह 4.47.
यज्ञकुंडात्समुत्तस्थौ वृत्रो नाम महासुरः
शक्रो महामुनेरस्थ्नां वज्रं कृत्वा सुदारुणम्
ब्रह्महत्या शुनासीरं दुद्राव हतचेतनम्
सप्ततालप्रमाणा सा शुष्ककण्ठोष्ठतालुका
धावंतं परिधावंती बलिष्ठा हतचेतनम्
इंद्रो दृष्ट्वा च तां घोरां स्मारंस्मारं गुरोः पदम्
तत्र गंतुं न शक्ता सा ब्रह्मणः शापकारणात्
अथात्र नहुषो भूपस्त्रिलोकेशो बभूव ह
शची श्रुत्वा महाभीता तारकां शरणं ययौ
शचीमाश्वास्य स्वगुरुर्जगाम तत्सरो मुदा 4.47.
बृहस्पतिरुवाच त्वदीश्वरं स्वरेणैव निशामय भयं त्यज
सूक्ष्मरूपं परित्यज्य स्वरूपं च दधार सः
दृष्ट्वा ननाम संप्रीत्या संप्रीतं त्यक्तकोपकम्
निधाय वक्षसि प्रेम्णा रुरोद प्रेमविह्वलः पुटांजलिः पुलकितो भक्तिनम्रात्मकंधरः
भृत्यापराधं सततं न गृह्णाति सदीश्वरः
दुर्बलः सबलो वाऽपि को दंडं कर्तुमक्षमः
त्वत्प्रसादात्सुरश्रेष्ठ कृपया वर्द्धितस्त्वया
स्वयं विधातुः पौत्रश्च पुनः स्रष्टुं स्वयं क्षमः उवाच वचनं प्रीत्या प्रसन्नवदनेक्षणः
संप्राप्य परमैश्वर्यं पूर्वस्माच्च चतुर्गुणम्
हतशत्रुर्मत्प्रसादाद्गत्वा पश्य शचीं सतीम्
ददर्श पुरतो घोरां ब्रह्महत्यां सुदुःसहाम्
बृहस्पतिर्महाभीतः सस्मार मधुसूदनम्
स्वल्पाक्षरा च बह्वर्था तां शुश्राव बृहस्पतिः
राधिके वचनं श्रुत्वा शिष्यं रक्षाधुनेति च