शुभाशुभं च यत्किंचित्सर्वं कर्मोद्भवं भवेत्
चकाराराधनं भक्त्या नैष्कृत्यं च चकार ह
वनं गत्वा चिरं तिष्ठ विधाय मूर्तिमश्मनः अकामां चकमे शक्रः सर्वं जानाम्यहं प्रिये
तथा च परभोग्या मे न भोग्या व्रजाधमे
अहल्ये याति दैवेन तदुपायं निशामय
कामभोगेन त्याज्या सा कर्मभोगेन शुद्ध्यति 4.47.
षष्टिवर्षसहस्राणि कालसूत्रं प्रयाति सा
स्वामिनो वचनात्सा तु प्रणम्य स्वामिनं भिया
षष्टिवर्षसहस्राणि भुक्त्वा भोगं मुनिप्रिया
त्रैलोक्यमोहनं रूपं विधाय मुनिकामिनी
अथ शक्रस्य वृत्तांतं परमं शृणु सुन्दरि
एकदा च गुरोः कोपात्प्रकृतेरवहेलनात्
शक्रस्त्यक्तगुरुर्दैवग्रस्तो दैत्यनिपीडितः
तदाज्ञया विश्वरूपं चकार च पुरोहितम्
दैत्यदौहित्रस्य भावं विज्ञाय च विचक्षणः
विश्वरूपपिता त्वष्टा श्रुत्वा सद्यश्चुकोप ह 4.47.
यज्ञकुंडात्समुत्तस्थौ वृत्रो नाम महासुरः
शक्रो महामुनेरस्थ्नां वज्रं कृत्वा सुदारुणम्
ब्रह्महत्या शुनासीरं दुद्राव हतचेतनम्
सप्ततालप्रमाणा सा शुष्ककण्ठोष्ठतालुका
धावंतं परिधावंती बलिष्ठा हतचेतनम्
इंद्रो दृष्ट्वा च तां घोरां स्मारंस्मारं गुरोः पदम्
तत्र गंतुं न शक्ता सा ब्रह्मणः शापकारणात्
अथात्र नहुषो भूपस्त्रिलोकेशो बभूव ह
शची श्रुत्वा महाभीता तारकां शरणं ययौ
शचीमाश्वास्य स्वगुरुर्जगाम तत्सरो मुदा 4.47.
बृहस्पतिरुवाच त्वदीश्वरं स्वरेणैव निशामय भयं त्यज
सूक्ष्मरूपं परित्यज्य स्वरूपं च दधार सः
दृष्ट्वा ननाम संप्रीत्या संप्रीतं त्यक्तकोपकम्
निधाय वक्षसि प्रेम्णा रुरोद प्रेमविह्वलः पुटांजलिः पुलकितो भक्तिनम्रात्मकंधरः