श्रुतं यशः शूलभृतो दर्पभङ्गश्च दैवतः
अधुना श्रोतुमिच्छामि दर्पभङ्गं हरेर्हरे
श्रीकृष्ण उवाच कर्णपीयूषमतुलं सुन्दरं शृणु सुन्दरि
पुरा शतमखो दर्पात्कृत्वा शतमखान्मुदा
दिनेदिने तदैश्वर्यं वर्द्धते तपसां फलात्
स जजाप महामन्त्रं पुष्करे शतवत्सरम्
ब्रह्मस्वरूपां प्रकृतिं संपन्मूढो न मन्यते ।।4.47.
एकदा प्रकृतेः शापाद्धतबुद्धिः स्वसंसदि
बृहस्पतिस्ततः कोपान्नोवास गृहमाययौ
उवाच मनसा दीनो यातु संपद्धरेरिति
इत्युक्त्वा वेगतः पीठाज्जगाम तारकान्तिकम्
सर्वं निवेदनं कृत्वा रुरोदोच्चैर्मुहुर्मुहुः
वत्स गच्छ गृहं नैव गुरुं द्रक्ष्यसि साम्प्रतम्
अधुना कर्मणां भोगं भुङ्क्ष्व मूढ दुराशय
सुदिनं दुर्दिनं शक्र कारणं सुखदुःखयोः
जगाम शक्रः स्नानार्थं स्वर्णदीं सुमनोहराम्
सस्मितां सकटाक्षां तामहल्यां गौतमप्रियाम् 4.47.
स तस्याः शक्रः संपश्यन्मुमोह काममोहितः
मूर्तिं विधाय तद्भर्तुस्तत्समीपं जगाम ह
चकार विविधं तत्र शृंगारं सुमनोहरम्
निश्चेष्टा सुखसंभोगान्निश्चेष्टस्त्रिदशाधिपः
ददर्श गेहे मिथुनं मैथुने च रतिप्रिये
विज्ञानेनातिरोषेण बभञ्ज सुरतिक्षणम्
कालस्वरूपं त्रासेन दधार चरणाम्बुजम् उवाच नीतिवचनं गौतमः शरणागतम्
प्रपौत्र जगतां स्रष्टुर्बुद्धिस्ते कथमीदृशी
कर्मसाध्यः स्वभावश्च कुलधर्मं प्रबाधते 4.47.
योनीनां च सहस्रं च तव गात्रे भवत्विह
ततः सूर्यं समाराध्य योनिश्चक्षुर्भविष्यति
मच्छापेन गुरोः कोपाद्भ्रष्टश्रीर्भव साम्प्रतम्
तेजस्विनोऽतिबन्धोर्मे बंधुभेदभिया सुर