सनातनश्च श्रीकृष्णो नित्यः पूर्णतमः स्वयम्
सनत्तु नित्यवचनः कुमारः शिशुवाचकः 1.22.
ब्रह्मणो बालकानां च व्युत्पत्तिः कथिता मुने
सौतिरुवाच नारदं प्रेरयामास सृष्टिं कर्त्तुं च शौनक
हितं सत्यं वेदसारं परिणामसुखावहम्
ब्रह्मोवाच ज्ञानदीपशिखाज्ञानतिमिरक्षयकारक
पूर्वेषामपि वन्द्यानां जनकः परमो गुरुः
तवाहं जनकः पुत्र विद्यादाता च पालकः
स च शिष्यः सोऽपि पुत्रो यश्चाज्ञां पालयेद्गुरोः
स पण्डितः स च ज्ञानी स क्षेमी स च पुण्यवान्
सर्वेषामाश्रमाणां च प्रधानः पुण्यवान्गृही
पितरः पूर्वकाले च तिथिकाले च देवताः
नित्यं नैमित्तिकं काम्यं कुर्वन्ति गृहिणः सदा 1.23.
जीवन्मुक्तो गृहस्थश्च स्वधर्मपरिपालकः
यशस्वी कीर्तिमान्यो हि मृतो जीवति सन्ततम्
ब्रह्मणो वचनं श्रुत्वा नारदो मुनिसत्तमः
नारद उवाच हानिर्बभूव दैवेन महती वाऽयशस्करी
मया प्राप्तं च त्वच्छापाद्गान्धर्वं शौद्रमेव च
बभूव शापो मुक्तो मे काले ते भविता विधे
स पिता स गुरुर्बन्धुः स पुत्रः समधीश्वरः
असद्वर्त्मनि चाज्ञानाद्गच्छन्ति यदि बालकाः
कारयित्वा कृष्णपादे भक्तित्यागं च यः पिता
दारग्रहो हि दुःखाय केवलं न सुखाय च 1.23.
योषितस्त्रिविधा ब्रह्मन्गृहिणां मूढचेतसाम्
परलोकभिया साध्वी तथेह यशसाऽऽत्मनः
भोग्या भोगार्थिनी शश्वत्कामस्नेहेन केवलम्
वस्त्रालंकारसम्भोगसुस्निग्धाहारमुत्तमम्
कुलाङ्गारसमा नारी कुलटा कुलनाशिनी
सदा पुंयोगमाशंसुर्मनसा मदनातुरा
जारार्थे स्वपतिं तात हन्तुमिच्छति पुंश्चली