स्त्रीपुंसो रतिविच्छेदमुपायेन करोति यः
यात्यन्ते कालसूत्रे च वर्षलक्षं स पातकी
रम्भायुक्तं शक्रमिमं चकार विरतं रतौ
पुनरन्यां स संप्राप्य निषेव्य शूलपाणिनम्
रोहिणीसहितं चन्द्रं चकार विरतं रतौ
पुनः शिवं समाराध्य प्राप्याहल्यां च पुष्करे
मुनिः स्वभार्यासंसक्ते दिवसे निर्जने वने
बभूव पुत्रविच्छेदस्तस्य कल्पान्तरे पुनः 4.46.
हरिश्चन्द्रो हालिकं च वृषल्या सह संयुतम्
भ्रष्टः श्रीराज्यवित्तेभ्यस्तं चकारावलीलया
ततः शिवं समाराध्य दातारं सर्वसंपदाम्
आजामिलं द्विजश्रेष्ठं वृषल्या सह संयुतम्
निष्पन्ने कर्मभोगे च स मद्भक्तो मुमोच ह
सर्वं निषेकसाध्यं च निषेको बलवान्विधे
दिव्यं वर्षसहस्रं च शंभोः संभोगकर्मकृत्
पूर्णे वर्षसहस्रे च गत्वा तत्र महेश्वरः
तत्र वीर्ये च भविता स्कन्दको भक्ततारकः
अधुना त्वं गृहं गच्छ भगवान्स्वगणैः सह ।। 4.46.
इत्युक्त्वा कमलाकान्तः शीघ्रं स्वान्तःपुरं ययौ
नारायण उवाच जगाम चन्दनवनं निर्जने च तया सह
अतीव निर्जनं रम्यं वायुना सुरभीकृतम्
पुष्पतल्पसमाकीर्णे परपुष्टरुतश्रुते
कृष्णसंभोगमात्रेण सुखसंमूर्च्छिता च सा
तस्थतुस्तत्र संयुक्तौ राधारासेश्वरौ मुने
इत्येवं मङ्गलं कर्म यः शृणोति समाहितः
महाशोकार्णवे मग्नो भेदे पुत्रकलत्रयोः
सूत उवाच पुनः संप्रष्टुमारेभे देवर्षिः कौतुकान्वितः
नारद उवाच कां कथां कथयामास कथ्यतां करुणानिधे
उवास मलयद्रोणीं वटमूले मनोहरे
राधा तं परिपप्रच्छ सस्मितं सुमनोहरम्