शैलेशैलेऽतिरम्ये च नद्यांनद्यां नदेनदे
काञ्चने भूमिनिकरे वटमृलेऽतिनिर्जने
भ्रमरध्वनिसंयुक्ते पुंस्कोकिलरुतश्रुते
चित्तेषु चेतनानां च हरणं योषितामहो
पूर्णमब्दशतं दिव्यं स रेमे वामया सह
तस्थतुस्तौ च तत्रैव संसक्तौ सततं मुदा
पतिविच्छेदसंतापं विजहौ सा रतिर्मुदा
इत्येवं कथितं सर्वं रतिसंतापकारणम्
शृण्वतां कर्णपीयूषं परमाश्चर्यमीप्सितम् 4.46.
वसञ्छ्वशुरगेहे स पार्वत्या सह शंकरः
रत्नस्यन्दनमारुह्य रत्नसारपरिच्छदम्
शतशृङ्गे सुवसने मलये गन्धमादने
पुलिन्दे च कलिन्दे च पुंड्रे पिंडारकेंऽधके
निकटेऽस्तगिरेः पार्श्ववटमूले मनोहरे
नानास्थानेषु रहसि पशुपक्षिविवर्जिते
यत्रयत्र शिवं नीत्वा बभ्राम धरणीतलम्
कृत्वा विहारं सुचिरं न पूर्णं मानसं तयोः
मायातीतोऽतिमायेशो मायासक्तः स्वमायया
शक्तिशक्तिमतोस्तत्र न बभूव परिश्रमः 4.46.
सुखसंसक्तमनसोः पुलकाञ्चितगात्रयोः
नग्नयोः सुखसंभोगाद्रतिशास्त्रविधिज्ञयोः
चन्दनागुरुकस्तूरीसिन्दूरबिन्दुलिप्तयोः
वसनानां नूपुराणां कङ्कणानां च सुन्दरि
पुष्पतल्पं दलितयोर्बाष्पोत्कर्षं च बिभ्रतोः
भारेण विश्वंभरयोर्भाराक्रान्ता वसुन्धरा
तयोर्भरभराक्रान्तधरायाश्च भरेण च
कच्छपस्य भरेणैव सर्वाधारा समीरणाः
सर्वं निवेदनं चक्रुर्नारायणपदाम्बुजे 4.46.
श्रीनारायण उवाच कालप्रयुक्तं कार्यं च सिद्धं तत्समयोचितम्
पूर्णे वर्षसहस्रे च स्वेच्छया विरमिष्यति