शीघ्रं ययुस्ते कैलासं देवा मानसशायिनः
दृष्ट्वा गतं देवपत्न्यो मुनिपत्न्यश्च सत्वरम् ६७ वायुपत्नी कुबेरस्य कामिनी शुक्रकामिनी
अत्रिभार्यानुसूया च चंद्रपत्न्यस्तथैव च
असंख्यकामिनीसंघः संख्यां कर्तुं च कः क्षमः 4.45.
रत्नसिंहासने रम्ये वासयामासुरीश्वरीम्
सति स्मरस्यतो गेहाद्यद्गता तातमंदिरम्
जातिस्मरां स्मारयामि नित्यं स्मरसि चेद्वद
सर्वं स्मरामि प्राणेश मौनीभूतो भवेति तम्
भोजयामास देवांश्च नारायणपुरोगमान्
सस्त्रीका सगणाः सर्वे प्रणम्य चन्द्रशेखरम्
तौ च तं च समाश्लिष्याशिषं कृत्वा प्रजग्मतुः
शीघ्रमानय भद्रं ते पार्वतीं शंकरं सुत
आजगाम समानीय पार्वतीपरमेश्वरौ
वृद्धा युवत्यो या याश्च शैलाश्च दुद्रुवुर्मुदा 4.45.
हिमालयश्च मुदितो दुद्रावानुव्रजन्सुताम्
प्रणनाम प्रमुदिता निमग्नाऽऽनन्दसागरे
हिमालयश्च मुदितो गताः प्राणा इवागताः
शूलभृते गणेभ्यश्च मधुपर्कादिकं मुदा
नित्यं षोडशोपचारैः पूजितः सह भार्यया शोकजं हर्षजनकं किं भूयः श्रोतुमिच्छसि
राधिकोवाच रतिः पुनः प्रियं प्राप्य किं चकार मुदाऽन्विता
स्त्रीणां स्वस्वामिविच्छेदो मरणादतिदुष्करः
शिवः सतीं तां संप्राप्य सङ्गे मङ्गलकर्मणि
कलत्रविरहः पुंसां सर्वशोकात्सुदुष्करः
रतिः पुंसो विरहिणी शिवः स्त्रीविरही चिरम्
तदेवं श्रोतुमिच्छामि परं कौतूहलं मम
मेलनं शक्तिशिवयो रतिमन्मथयोस्ततः
नारायण उवाच कृष्णस्तद्वचनं श्रुत्वा सस्मितस्तामुवाच ह
कृष्ण उवाच स्वालयं तं समानीय हरोद्वाहगृहादहो
भर्तुः सुवेषं विविधं स्वात्मनः स्वालिभिर्मुदा 4.46.
ज्ञात्वा कामस्तु तद्भावं कामशास्त्रविधायकः