तुलस्युवाच कथं तदा वसिष्ठश्च प्रभो प्रस्थापितोऽधुना
स्वाहोवाच विवाहे व्यवहारोऽस्ति पुरस्त्रीणां प्रगल्भता
रोहिण्युवाच कुरु पारं स्वयं कामी कामिनां कामसागरम्
वसुंधरोवाच येन तुष्टिर्भवेच्छंभो तत्कर्तुमुचितं स्त्रिया
संज्ञोवाच न च स्वस्वामिनं शंभो सती जानाति संगतम्
शतरूपोवाच रत्नप्रदीपं तांबूलं तल्पं निर्माय निर्जने ।। 4.45.
श्रीकृष्ण उवाच निर्विकारी च भगवान्योगींद्राणां गुरोर्गुरुः
शंकर उवाच जगतां मातरः साध्व्यः पुत्रे चपलता कथम्
शंकरस्य वचः श्रुत्वा लज्जिताः सुरयोषितः
भुक्त्वा मिष्टानि भगवानाचम्य च मुदाऽन्वितः
रत्नसिंहासने शंभुर्मेनादत्ते मनोहरे ४५ रत्नप्रदीपशतकैर्ज्वलद्भि र्ज्वलितं श्रिया
रत्नदर्पणशोभाढ्यं मंडितं श्वेतचामरैः
नानाचित्रविचित्राढयं निर्मितं विश्वकर्मणा
कुत्रचित्सुरनिर्माणवैकुंठसुमनोहरम्
कैलासं च कुत्रचन कुत्रचिदिंद्रमंदिरम् 4.45.
अथ प्रभातकालश्च बभूव प्राणवल्लभे
सर्वे सुराः समुत्तस्थुः सज्जीभूताः ससंभ्रमाः
वासगेहं समागत्य धर्मो नारायणाज्ञया
धर्म उवाच पार्वत्या सह माहेंद्रे यात्रां कुरु हरिं स्मरन्
इत्थं धर्मवचः श्रुत्वा पार्वत्या सह शंकरः
यात्रां कुर्वति देवेशे पार्वत्या सह शंकरे
मेनोवाच सहस्रदोषान्भगवानाशुतोषः क्षमिष्यसि
त्वत्पदांबुजभक्तैषा मद्वत्सा जन्म जन्मनि
त्वद्भक्तिश्रुतिमात्रेण हर्षाश्रुपुलकान्विता
इत्युक्ता मेनका शीघ्रं तत्रागत्य हिमालयः 4.45.
क्व यासि वत्सेत्युच्चार्य शून्यं कृत्वा हिमालयम्
इत्येवमुक्त्वा शैलेन्द्रः समर्प्य च शिवां शिवे
नारायणश्च भगवानध्यात्मविद्यया स्वयम्
ननाम पार्वती भक्त्या मातरं पितरं गुरुम्
पार्वतीरोदनेनैव रुरुदुः सर्वयोषितः