सावित्र्युवाच तदाचम्य सकर्पूरं तांबूलं देहि भक्तितः
जाह्नव्युवाच कामिन्याः स्वामिसौभाग्यं सुखं नातः परं भवेत्
रतिरुवाच कथं मम प्राणनाथो निःस्वार्थ भस्मसात्कृतः
जीवयसि विभो कामं कामव्यापारमात्मनि
दम्पतीविरहक्लेशं सर्वं ज्ञात्वा दयानिधे
इत्युक्त्वा कामभस्माथ ददौ सा ग्रन्थिबंधितम् 4.45.
हरिस्तद्रोदनं श्रुत्वा करुणामयसागरः
दृष्ट्वा नारायणं धर्मं ब्रह्माणं च सुरानपि
शंकरस्य वचः श्रुत्वा तमुवाच हरिः स्वयम्
ऊचुर्देव्यो बहुतरं वाक्यं विनयपूर्वकम्
दृष्ट्वा कामं रतिस्तं च प्रणनाम महेश्वरम्
प्रणम्य शंकरं कामः स्तुतिं कृत्वा यथागमम्
कामं संभाष्य देवाश्च युयुजुश्च तमाशिषम्
अथ शैलः सुरान्सर्वान्नारायणपुरोगमान्
अथ शंभुर्वासगृहे वामे संस्थाप्य पार्वतीम्
भुक्तवंतं शिवं तत्र देवमाताऽदितिः स्वयम् 4.45.
अदितिरुवाच देहि शीघ्रं मम प्रीत्या दंपत्योः प्रीतिपूर्वकम्
शच्युवाच यो बभ्राम भुवं मोहात्कालेन प्राप तां सतीम्
अरुंधत्युवाच विविधं बोधयित्वेमां रतिं च कर्तुमर्हसि
अहल्योवाच तेन मेना तु मेने त्वां सुतामर्पितुमीश्वर
तुलस्युवाच कथं तदा वसिष्ठश्च प्रभो प्रस्थापितोऽधुना
स्वाहोवाच विवाहे व्यवहारोऽस्ति पुरस्त्रीणां प्रगल्भता
रोहिण्युवाच कुरु पारं स्वयं कामी कामिनां कामसागरम्
वसुंधरोवाच येन तुष्टिर्भवेच्छंभो तत्कर्तुमुचितं स्त्रिया
संज्ञोवाच न च स्वस्वामिनं शंभो सती जानाति संगतम्
शतरूपोवाच रत्नप्रदीपं तांबूलं तल्पं निर्माय निर्जने ।। 4.45.
श्रीकृष्ण उवाच निर्विकारी च भगवान्योगींद्राणां गुरोर्गुरुः
शंकर उवाच जगतां मातरः साध्व्यः पुत्रे चपलता कथम्
शंकरस्य वचः श्रुत्वा लज्जिताः सुरयोषितः
भुक्त्वा मिष्टानि भगवानाचम्य च मुदाऽन्वितः