प्रलयप्रलयाद्यैकभवप्रलयकारण
संहारकाले घोरे च सृष्टिसंहारकारण
कालस्वरूप कालेश काले च फलदायक
शिवस्वरूप शिवद शिवबीज शिवाश्रय
इत्येवं स्तवनं कृत्वा विरराम हिमालयः 4.44.
हिमालयकृतं स्तोत्रं संयतो यः पठेन्नरः
अथ वेदविधानेन संस्थाप्य वह्निमीश्वरः
निवृत्ते विधिवद्यज्ञे विप्राय दक्षिणां ददौ
अथ प्रदीपमानीय शैलेंद्रनगरस्त्रियः
कृत्वा जयध्वनिं प्रीत्या शुभनिर्मञ्छनादिकम्
वासगेहं संप्रविश्य ददृशुः कामिनीगणाः
चन्दनागुरुकस्तूरीकुंकुमांचितविग्रहम्
अपूर्वसूक्ष्मवेषाढ्यं सिंदूरबिंदुभूषितम्
नवीनयौवनस्थं च मुनीन्द्रचित्तमोहनम्
अदितिं च शचीं चैव लोपामुद्रामरुंधतीम्
शतरूपां च संज्ञां च सतीस्त्रीणां च षोडश 4.45.
या याः स्थितास्तत्र तासां संख्यां कर्तुं च कः क्षमः तमूचुः क्रमशो देव्यो मधुरोक्तिं सुधामिव
सरस्वत्युवाच दृष्ट्वा प्रियास्यं चंद्राभं संतापं त्यज कामुक
कालं गमय कालेश सदा संश्लेषपूर्वकम्
लक्ष्मीरुवाच तिष्ठ संप्रति का लज्जा प्राणा यांति यया विना
सावित्र्युवाच तदाचम्य सकर्पूरं तांबूलं देहि भक्तितः
जाह्नव्युवाच कामिन्याः स्वामिसौभाग्यं सुखं नातः परं भवेत्
रतिरुवाच कथं मम प्राणनाथो निःस्वार्थ भस्मसात्कृतः
जीवयसि विभो कामं कामव्यापारमात्मनि
दम्पतीविरहक्लेशं सर्वं ज्ञात्वा दयानिधे
इत्युक्त्वा कामभस्माथ ददौ सा ग्रन्थिबंधितम् 4.45.
हरिस्तद्रोदनं श्रुत्वा करुणामयसागरः
दृष्ट्वा नारायणं धर्मं ब्रह्माणं च सुरानपि
शंकरस्य वचः श्रुत्वा तमुवाच हरिः स्वयम्
ऊचुर्देव्यो बहुतरं वाक्यं विनयपूर्वकम्