बहिश्चकार सद्रत्नासनस्थां रत्नवेदिकाम्
चारुचन्दनचन्द्राभां नम्रभालस्थलोज्ज्वलाम्
त्रिनेत्रदत्तनेत्रां तामन्यवारितलोचनाम्
रत्नकेयूरवलयरत्नकङ्कणमण्डिताम्
अमूल्यातुल्यचित्राढ्यवस्त्रयुग्म सुशोभिताम् 4.44.
रत्नदर्पणहस्तां च क्रीडापद्मं विघूर्णतीम्
चन्दनागुरुकस्तूरीकुङ्कुमेनाङ्गचर्चिताम्
त्रिनेत्रो नेत्रकोणेन तां ददर्श मुदाऽन्वितः
शिवः सर्वं विसस्मार दुर्गासन्यस्तमानसः
एतस्मिन्नन्तरे शैलः प्रहृष्टः सपुरोहितः
भक्त्या पाद्यादिभिर्माल्यैर्दिव्यगंधमनोहरैः
यौतुकानि ददौ तस्मै रत्नानि विविधानि च
गवां लक्षं गजेंद्राणां सहस्राणि च राधिके
त्रिंशल्लक्षं हयानां च सज्जितानामकातरः
शतं द्विजबटूनां च पार्वतीभ्रातृकल्पकम् 4.44.
पार्वतीं वस्तुसहितां स्वस्तीत्युच्चार्य शंकरः
हिमालयः सुतां दत्त्वा परिहारं चकार तम्
हिमालय उवाच सर्वात्मरूप सर्वेश परमानंदविग्रह
गुणार्णव गुणातीत गुणयुक्त गणेश्वर
योगाधार योगरूप योगज्ञ योगकारण
प्रलयप्रलयाद्यैकभवप्रलयकारण
संहारकाले घोरे च सृष्टिसंहारकारण
कालस्वरूप कालेश काले च फलदायक
शिवस्वरूप शिवद शिवबीज शिवाश्रय
इत्येवं स्तवनं कृत्वा विरराम हिमालयः 4.44.
हिमालयकृतं स्तोत्रं संयतो यः पठेन्नरः
अथ वेदविधानेन संस्थाप्य वह्निमीश्वरः
निवृत्ते विधिवद्यज्ञे विप्राय दक्षिणां ददौ
अथ प्रदीपमानीय शैलेंद्रनगरस्त्रियः
कृत्वा जयध्वनिं प्रीत्या शुभनिर्मञ्छनादिकम्