वृद्धा बाला युवत्यश्च वस्त्राभरणभूषिताः
काश्चित्सिन्दूरहस्ताश्च काश्चित्कंकतिहाकराः
काश्चिन्निर्भूषिताः काश्चित्सर्वाभरणभूषिताः
ऋषिकन्या देवकन्या नागकन्या मनोहराः
सर्वा अप्सरसो दिव्या रम्भाद्या समुपस्थिताः 4.44.
चारुचम्पकवर्णाभमेकवक्त्रं त्रिलोचनम्
चन्दनागुरुकस्तूरीचारुकुङ्कुमभूषितम्
वह्निशौचेनातुलेन चातिसूक्ष्मेण चारुणा
रत्नदर्पणहस्तं च कज्जलोज्ज्वललोचनम्
अतीव तरुणं रम्यैर्भूषिताङ्गैश्च भूषितम्
योगस्वरूपं योगेशं योगीन्द्राणां गुरोर्गुरुम्
गुणभेदाद्रूपभेदं धत्तेऽनन्तमरूपकम्
सर्वाधारं सर्वबीजं सर्वेशं सर्वजीवनम् ।। साक्षिरूपं निरीहं च परमानन्दमक्षरम्
आद्यन्तमध्यरहितं सर्वाद्यं सर्वरूपकम्
प्रशशंसुर्युवत्यश्च धन्या धन्या सतीति ताः 4.44.
कामेन काश्चित्कामिन्यो मौनीभूताश्च स्तम्भिताः
काश्चिन्निमेषरहिता मूर्च्छामापुश्च काश्चन
काश्चिद्भावेन रुरुदुः पुलकाञ्चितविग्रहाः
दृष्ट्वा शंकररूपं च प्रहृष्टाः सर्वदेवताः
वादका वादयामासुर्नानाशिल्पेन तत्र वै
बहिश्चकार सद्रत्नासनस्थां रत्नवेदिकाम्
चारुचन्दनचन्द्राभां नम्रभालस्थलोज्ज्वलाम्
त्रिनेत्रदत्तनेत्रां तामन्यवारितलोचनाम्
रत्नकेयूरवलयरत्नकङ्कणमण्डिताम्
अमूल्यातुल्यचित्राढ्यवस्त्रयुग्म सुशोभिताम् 4.44.
रत्नदर्पणहस्तां च क्रीडापद्मं विघूर्णतीम्
चन्दनागुरुकस्तूरीकुङ्कुमेनाङ्गचर्चिताम्
त्रिनेत्रो नेत्रकोणेन तां ददर्श मुदाऽन्वितः
शिवः सर्वं विसस्मार दुर्गासन्यस्तमानसः
एतस्मिन्नन्तरे शैलः प्रहृष्टः सपुरोहितः