प्रधानाङ्गमुखं धातुस्ततो जातश्च बालकः
अतितेजस्विनि भृगुर्वर्त्तते नाग्नि शौनक
बालोऽप्यरुणवर्णश्च जातः सद्योऽतितेजसा 1.22.
हंसा आत्मवशा यस्य योगेन योगिनो धुवम्
वशीभूतश्च शिष्यश्च जातः सद्यो हि बालकः
सन्ततं यस्य यत्नं च तपःसु बालकस्य च पुलस्तपःसु वेदेषु वर्त्ततेऽहः स्फुटेऽपि च
स्फुटस्तपःसमूहश्च पुलहस्तेन बालकः तपःसंघस्वरूपश्च पुलस्त्यस्तेन बालकः
त्रिगुणायां प्रकृत्यां त्रिर्विष्णावश्च प्रवर्त्तते
[http://puranastudy.page.tl/Atri-%26%232309%3B%26%232340%3B%26%232381%3B%26%232352%3B%26%232367%3B.htm अत्रि शब्दोपरि टिप्पणी] जटा वह्निशिखारूपाः पञ्च सन्ति च मस्तके
अपान्तरतमे देशे तपस्तेपेऽन्यजन्मनि
स्वयं तपः समाप्नोति वाहयेत्प्रापयेत्परान्
तपसस्तेजसा बालो दीप्तिमान्सततं मुने
कोपकाले बभूवुर्ये स्रष्टुरेकादश स्मृताः 1.22.
शौनक उवाच भवान्पुराणतत्त्वज्ञः सन्देहं छेत्तुमर्हति
सौतिरुवाच तमोगुणास्ते रुद्राश्च दुर्निवारा भयंकराः
कालाग्निरुद्रः संहर्त्ता तेष्वेकः शंकरांशकः
अन्ये कृष्णस्य च कलास्तावंशौ विष्णुशंकरौ
उक्तं रुद्रोद्भवे काले कथं विस्मरति द्विज
सनकश्च सनंदश्च तृतीयश्च सनातनः
सनकश्च सनन्दश्च तौ द्वावानन्दवाचकौ
सनातनश्च श्रीकृष्णो नित्यः पूर्णतमः स्वयम्
सनत्तु नित्यवचनः कुमारः शिशुवाचकः 1.22.
ब्रह्मणो बालकानां च व्युत्पत्तिः कथिता मुने
सौतिरुवाच नारदं प्रेरयामास सृष्टिं कर्त्तुं च शौनक
हितं सत्यं वेदसारं परिणामसुखावहम्
ब्रह्मोवाच ज्ञानदीपशिखाज्ञानतिमिरक्षयकारक
पूर्वेषामपि वन्द्यानां जनकः परमो गुरुः
तवाहं जनकः पुत्र विद्यादाता च पालकः
स च शिष्यः सोऽपि पुत्रो यश्चाज्ञां पालयेद्गुरोः
स पण्डितः स च ज्ञानी स क्षेमी स च पुण्यवान्