इत्युक्त्वा विरतः शंभुर्ददर्श गगनस्थिताम्
तप्तकाञ्चनवर्णाभां रत्नाभरणभूषिताम्
दृष्ट्वा तां विरहासक्तः पुनस्तुष्टाव सत्वरम्
दर्शयामासास्थिमालां स्वांगस्थं भस्मभूषणम् 4.43.
इहलोके सुखं भुक्त्वा स याति शिवमन्दिरम्
वसिष्ठस्य वचः श्रुत्वा सगणोऽपि हिमालयः
अरुन्धती च तां मेनां बोधयामास कातराम्
अरुन्धतीं भोजयित्वा बुभुजे भोगमुत्तमम्
ततः संभृतसंभारो वसिष्ठस्याज्ञया प्रिये
ततः प्रस्थापयामास शिवं मङ्गलपत्रिकाम्
तन्दुलानां च शैलान्वै पृथुकानां च सुन्दरि
गुडानामासनानां च क्षीराणां च तथैव च
लड्डुकानां शर्कराणां स्वस्तिकानां तथैव च
नानाप्रकारवस्त्राणि वह्निशौचानि यानि च
द्रव्याण्येतानि शैलेन्द्र कृत्वा तु विधिपूर्वकम् 4.44.
संस्कारं कारयामासुः पार्वतीं पर्वतस्त्रियः
कारयित्वा सुवेषां च रत्नभूषणभूषिताम
ददुश्चालक्तकं चारु पादांगुलिषु पादयोः
कबरीं कारयामासुर्मालतीमाल्यवेष्टिताम्
एतस्मिन्नंतरे राधे समाजग्मुः सुरेश्वराः
शैलः संभृतसंभारान्संभाषयितुमीश्वरान्
प्राङ्गणं कारयामास रम्भास्तम्भैः समन्वितम्
फलपल्लवसंयुक्तैः कलशैर्जलसंयुतैः
मालतीमाल्यसंयुक्तैः संयुक्तं सुमनोहरम्
रत्नसिंहासनं दातुं प्रेरयामास किङ्करान् 4.44.
विनतानन्दनात्तूर्णमवरुह्य चतुर्भुजः
रत्नमुष्टिनिबद्धैश्च सेवितः श्वेतचामरैः
ईषद्धास्यप्रसन्नास्यो भक्तानुग्रहकातरः
ऋषयो मुनयश्चैव समूषुर्मङ्गले स्थले
रत्नासने समुत्तिष्ठन्ददर्श पर्वतालयम्