आवयोरंशभूता ये प्राकृता नष्टविग्रहाः
ममाप्येवं द्विधा रूपं द्विभुजं च चतुर्भुजम्
गोलोके द्विभुजोऽहं च गोपीभिः सह राधया
पुरुषश्च सदा नित्यो नित्या प्रकृतिरीश्वरी
सशरीरौ निःशरीरौ स्वेच्छया सर्वरूपिणौ
सतीमिच्छसि चेच्छम्भो प्रकृतेः स्तवनं कुरु 4.43.
तद्दिव्यं कण्वशाखोक्तं भज तेन जगत्प्रसूम्
दूरं विप्लवहेतुश्च यातु स्त्रीविरहज्वरः
स्तवनं कर्तुमारेभे प्रकृतेश्च महेश्वरः पुटाञ्जलियुतो भूत्वा पुलकाञ्चितविग्रहः
महेश्वर उवाच ब्राह्मि ब्रह्मस्वरूपे त्वं मां प्रसीद सनातनि
भद्रे भद्रप्रदे दुर्गे दुर्गघ्ने दुर्गनाशिनि
सर्वस्वरूपे सर्वेशि सर्वबीजस्वरूपिणि
सर्वमङ्गलरूपे च सर्वमङ्गलदायिनि
निद्रे तन्द्रे क्षमे श्रद्धे तुष्टिपुष्टिस्वरूपिणि
दये जये महामाये प्रसीद जगदम्बिके 4.43.
लक्ष्मीर्नारायणक्रोडे स्रष्टुर्वक्षसि भारति
कलाकाष्ठास्वरूपे च दिवारात्रिस्वरूपिणि
कारणे सर्वशक्तीनां कृष्णस्योरसि राधिके
यशःस्वरूपे यशसां कारणे च यशःप्रदे
समस्तकामिनीरूपे कलांशेन प्रसीद मे
प्रसीद परमानन्दे कारणे सर्वसंपदाम्
आधारे सर्वजगतां रत्नाधारे वसुन्धरे ।। चराचरस्वरूपे च प्रसीद मम मा चिरम्
योगस्वरूपे योगीशे योगदे योगकारणे
सर्वसिद्धिस्वरूपे च सर्वसिद्धिप्रदायिनि
व्याख्यानं सर्वशास्त्राणां मतभेदे महेश्वरि 4.43.
केचिद्वदन्ति प्रकृतेः प्राधान्यं पुरुषस्य च
महाविष्णोर्नाभिदेशे स्थितं तं कमलोद्भवम्
दृष्ट्वा स्तुतिं प्रकुर्वन्तं ब्रह्माणं रक्षितुं पुरा
नारायणस्त्वद्भक्त्या च जघान तौ महासुरौ
अधुना रक्ष मामीशे प्रदग्धं विरहाग्निना