क्व यास्यसि क्व यास्यामि क्व गच्छन्त इमे वद
नेत्रनीरैस्त्रिनेत्रं तं रुदन्तं प्रसिषेच सः
बभूव सरसां श्रेष्ठं तीर्थं भुवनपावनम्
स्थलं बभूव तपसां मुक्तिबीजं तपस्विनाम्
शृण्वतां सर्वदेवानां मुनीनामूर्ध्वरेतसाम् शृणु शंकर वक्ष्यामि ज्ञानानंद सनातन
ज्ञानं ज्ञाननिधे शोकाद्विस्मृतोऽसि परात्पर 4.43.
सर्वेषां प्राकृतानां च ते बीजे सुखदुःखयोः
राग ऐश्वर्यकामश्च विद्वेषश्च निरन्तरम्
हतान्येतानि सर्वाणि हते बीजे महेश्वर
तत्कर्म तपसा साध्यं कर्मणा च शुभाशुभम्
संसर्गसाध्यो ऽध्यासश्च संसर्गः पुण्यतो भवेत्
मनः शंभो ममांशश्च सर्वेंद्रियपुरःसरम्
ब्रह्रैकं मूर्तिभेदस्तु गुणभेदेन संततम्
मायाश्रितो यः सगुणो मायाऽतीतश्च निर्गुणः
इच्छाशक्तिश्च प्रकृतिर्नित्या सर्वप्रसूः सदा
केचिद्वदन्ति द्विविधं ब्रह्म प्रकृतिपूर्वकम् 4.43.
तस्माद्भवति तौ द्वौ च तद्ब्रह्म सर्वकारणम्
इच्छाशक्तिश्च प्रकृतिः सर्वशक्तिप्रसूः .सदा
सर्वेश्वरः सर्वसाक्षी सर्वत्रास्ति फलप्रदः
नित्यं विनाशरहितं नश्वरं प्राकृतं सदा
आवयोरंशभूता ये प्राकृता नष्टविग्रहाः
ममाप्येवं द्विधा रूपं द्विभुजं च चतुर्भुजम्
गोलोके द्विभुजोऽहं च गोपीभिः सह राधया
पुरुषश्च सदा नित्यो नित्या प्रकृतिरीश्वरी
सशरीरौ निःशरीरौ स्वेच्छया सर्वरूपिणौ
सतीमिच्छसि चेच्छम्भो प्रकृतेः स्तवनं कुरु 4.43.
तद्दिव्यं कण्वशाखोक्तं भज तेन जगत्प्रसूम्
दूरं विप्लवहेतुश्च यातु स्त्रीविरहज्वरः
स्तवनं कर्तुमारेभे प्रकृतेश्च महेश्वरः पुटाञ्जलियुतो भूत्वा पुलकाञ्चितविग्रहः
महेश्वर उवाच ब्राह्मि ब्रह्मस्वरूपे त्वं मां प्रसीद सनातनि