पतिव्रते समुत्तिष्ठ कथं मां नाद्य सेवसे
इत्युक्त्वा मृतदेहं च प्रियाया विरहातुरः
अधरे चाधरं दत्त्वा वक्षो वक्षसि शङ्करः
पुनः स चेतनां प्राप्य वेगादुत्थाय शोकतः
सप्तद्वीपसप्तसिन्धुं लोकालोकं च काञ्चनम्
शतशृङ्गगिरेः पार्श्वे जम्बुद्वीपे च भारते 4.43.
रुरोदोच्चैः स्वयं कृत्वा सति साध्वीत्युदीर्य च
तन्नेत्रं च सरो नाम मुनीनां तपसः स्थलम्
यत्र स्नात्वा पुनर्जन्म नराणां न भवेद्गिरे
त्यक्त्वा तां मानवीं मूर्तिं नरा यान्ति हरेः पदम्
पूर्णमब्दं महायोगी विरहातुरमानसः
बभूव सिद्धपीठानां समूहो वाञ्छितप्रदः
अस्थिमालां विनिर्माय चकार कण्ठभूषणम्
सति प्राणेश्वरीत्युक्त्वा पुनर्मूर्च्छामवाप सः
स्वात्मारामः पूर्णकामो निश्चेष्टो विरहज्वरात्
दृष्ट्वा देवाः समाजग्मुर्विस्मिताः शिवसन्निधिम् 4.43.
रत्नयानेनाजगाम पद्मार्चितपदाम्बुजः
ईषद्धास्यप्रसन्नास्यो वनमालाविभूषितः
समूषुरीशसदसि लक्ष्मीकान्त प्रणम्य ते रुदन्तं बोधयामास ज्ञानीशो ज्ञानिनां गुरुम्
श्रीभगवानुवाच
हितमध्यात्मसारं च दुःखशोकनिकृन्तनम्
तथापि बोधयामि त्वां सर्वज्ञं वेधसो विधिम्
व्यवहारोऽस्ति लोकेषु सर्वः सर्वपरस्परम् .
विष्णुमाया बलवती गुणयुक्तं प्रबाधते
तत्रातीते कुतस्तानि सुदिने च समागते
सर्वाण्येतानि गण्यन्ते स्वप्नानीव विपश्चितः 4.43.
चेतनां कुरु भद्रं ते सतीं प्राप्स्यसि निश्चितम्
तेजः सूर्यं महीं गन्धो तथा त्वां च सती शिव
नेत्राण्युन्मीलनं कृत्वा त्रिनेत्रः श्रूयतामिति कस्त्वं तेजःस्वरूपोऽसि क इमे तव सन्निधौ
किन्नाम भवतश्चैषां कानि नामानि का सती