निःशत्रवो बभूवुस्ते सुरा अस्याः प्रसादतः 4.42.
दक्षश्च विधिवद्देवीं प्रददौ शूलपाणये
बभूव कलहः शैल तेन शूलभृता महान्
दक्षश्च सगणो रुष्टः प्रययौ स्वालयं तदा
न ददौ यज्ञभागं च मात्सर्याच्छूलपाणये
निर्भर्त्स्य च बहुतरं हृदयेन विदूयता
भविष्यं कथयामास त्रिकालज्ञा परात्परा
पलायनं च देवानां यज्ञस्थानाद्गिरीश्वरम्
जयं शंकरसैन्यानां स्वात्मनो मृत्युमेव च
निर्माणं नेत्ररसः प्रबोधं च जनार्दनात्
अपरं भवितव्यं च सर्वमुक्त्वा जगाम सा 4.42.
बभूवादर्शना योगात्सर्वासां सिद्धियोगिनी
स्मृत्वा तच्चरणाम्भोजं देहं तत्याज सुन्दरी
संजहार पुरा येन दैत्यानामखिलं कुलम्
जग्मुः शंकरसेनाश्च देशयज्ञं विनश्य च
सत्वरं सर्ववृत्तान्तं कथयामासुरीश्वरम् जगाम स्वर्णदीतीरं यत्र देवीकलेवरम्
नारायण उवाच अम्लानपद्मवक्त्रां तां शयानां जाह्नवीतटे
दधतीमक्षमालां च प्रतप्तकाञ्चनप्रभाम्
दृष्ट्वा सतीशरीरं च प्रदग्धो विरहाग्निना
कलत्रशोको बलवान्स्वात्मारामं परात्परम्
क्षणेन चेतनां प्राप्य तामुवाच त्रिलोचनः
साश्रुनेत्रोऽतिदीनश्च दीनानां शरणप्रदः
शंकर उवाच शङ्करोऽहं तव स्वामी पश्य मां निकटागतम्
शिवं शिवप्रदं सर्वसंपद्रूपं च सिद्धिदम्
शक्तोऽहं च त्वया सार्द्धं सर्वशक्तिस्वरूपया
यश्च शक्तिं न जानाति ज्ञानहीनश्च निन्दति 4.43.
स्वयं ब्रह्मा स्वयं विष्णुः साध्यभूता वयं तव
मधुराभासदृष्ट्या च मां दग्धं सेचनं कुरु
कथमद्यापि रुष्टेव विलपन्तं न भाषसे
परित्यज्य च नः प्राणान्गन्तुं नार्हसि सुन्दरि