स्थातुमेतेषु निन्द्येषु नाधिकारस्तव प्रभो
यास्यामि पतिसेवायै गच्छ तात स्वमन्दिरम् प्रसन्नवदनः श्रीमानतीव विनयं वचः
वरं गृहाण दास्यामि मत्परित्राणकारिणि ।। 4.42.
रूपवान्गुणवान्साध्वि संततं स्थिरयौवनः
चिरजीवी भवतु स मार्कण्डेयात्परः सुते
विष्णुभक्तः शिवसमः सिद्धस्तु कपिलात्परः
गृहा भवन्तु ते साध्वि कुबेरभवनाधिकाः
स्वभर्तुरधिकानां च भविष्यसि न संशयः
सा तं प्रदक्षिणीकृत्य प्रणम्य स्वगृहं ययौ
पतिव्रतां प्रशशंस प्रतिसंसदि संसदि
पश्चाद्बभूव सत्पुत्रा तद्भर्तुरधिका गुणैः
रक्ष सर्वबन्धुवर्गानात्मनः सर्वसंपदम् 4.42.
लग्नाधिपे च लग्नस्थे चन्द्रे स्वतनयान्विते
मार्गशीर्षे चन्द्रवारे सर्वदोषविवर्जिते
सदपत्यप्रदेऽतीव पतिसौभाग्यदायिनि
अत्यन्तप्रेमाविच्छेदप्रदायिनि परात्परे
जगदम्बां जगत्पित्रे मूलप्रकृतिमीश्वरीम्
आविर्भूता पुरा कल्पे देवानां रक्षणाय च
अस्याः स्वतेजसा दैत्याः केचिद्दग्धाः पलायिताः
बिलं प्रविविशुः केचिन्मूर्च्छां प्रापुश्च केचन
निःशत्रवो बभूवुस्ते सुरा अस्याः प्रसादतः 4.42.
दक्षश्च विधिवद्देवीं प्रददौ शूलपाणये
बभूव कलहः शैल तेन शूलभृता महान्
दक्षश्च सगणो रुष्टः प्रययौ स्वालयं तदा
न ददौ यज्ञभागं च मात्सर्याच्छूलपाणये
निर्भर्त्स्य च बहुतरं हृदयेन विदूयता
भविष्यं कथयामास त्रिकालज्ञा परात्परा
पलायनं च देवानां यज्ञस्थानाद्गिरीश्वरम्
जयं शंकरसैन्यानां स्वात्मनो मृत्युमेव च
निर्माणं नेत्ररसः प्रबोधं च जनार्दनात्