पादक्षयश्च त्रेतायां भगवन्भविता तव
कलिशेषे शेषपादस्तवाच्छन्नो भविष्यति
सत्ये सर्वव्यापकस्त्वं तदन्येषु च कुत्रचित्
वैष्णवेषु च सर्वेषु यतिषु ब्रह्मचारिषु 4.42.
नृपेषु धर्मशीलेषु सत्सु सद्वैश्यजातिषु
एषु त्वं सततं पूर्णो धर्मराज विराजसे
अश्वत्थवटबिल्वेषु तुलसीचंदनेषु च
विवाहेषु च पुष्पेषु विद्यमानोऽसि शाखिषु
वेदवेदांगश्रवणे जलेषु च सभासु च । श्रीकृष्णगुणनामोक्त श्रुतिगीतस्थलेषु च
व्रतपूजातपोन्याययज्ञसाक्षिस्थलेषु च
कृशता तेन भविता धर्म तेषु स्थलेषु च
पुंश्चलीषु च सर्वासु गृहेषु नरघातिनाम्
देवतागुरुविप्रेष्टपाल्यानां धनहारिषु
दुरोदरसुरापानकलहानां स्थलेषु च 4.42.
दस्युस्नेहेषु वादेषु तालच्छायासु गर्विषु
वृषवाहस्वर्णकारजीवहिंसोपजीविषु
दीक्षासंध्याविष्णुभक्तिविहीनेषु द्विजेषु च
शालग्रामसुरग्रंथभूमिविक्रयिषु प्रभो
शरणागतदीनेषु चाश्रितघ्नेषु नृष्वपि
कामात्क्रोधात्तथा लोभान्मिथ्यासाक्षिप्रवादिषु
स्थातुमेतेषु निन्द्येषु नाधिकारस्तव प्रभो
यास्यामि पतिसेवायै गच्छ तात स्वमन्दिरम् प्रसन्नवदनः श्रीमानतीव विनयं वचः
वरं गृहाण दास्यामि मत्परित्राणकारिणि ।। 4.42.
रूपवान्गुणवान्साध्वि संततं स्थिरयौवनः
चिरजीवी भवतु स मार्कण्डेयात्परः सुते
विष्णुभक्तः शिवसमः सिद्धस्तु कपिलात्परः
गृहा भवन्तु ते साध्वि कुबेरभवनाधिकाः
स्वभर्तुरधिकानां च भविष्यसि न संशयः
सा तं प्रदक्षिणीकृत्य प्रणम्य स्वगृहं ययौ
पतिव्रतां प्रशशंस प्रतिसंसदि संसदि