मां मातरं च स्त्रीभावं कृत्वा येन ब्रवीषि च
श्रुत्वा धर्मः सतीशापं नृपमूर्तिं विहाय च
धर्म उवाच परस्त्रीमातृबुद्धिं च कुर्वन्तं संततं सति
अहं तवांतर्विज्ञातुमागतस्तव सन्निधिम् 4.42.
कृतं मे दमनं साध्वि न विरुद्धं यथोचितम्
धर्मं स्वधर्मं विज्ञातुं कालं कलयितुं क्षमः
संहर्तुं यः क्षमः काले संहर्तारं भवं विभुः
शत्रुं विधातुं मित्रं च सुप्रीतिं कलहं क्षमः
शापं प्रदातुं सर्वाश्च सुखदुःखवरान्क्षमः
प्रकृतिर्निर्मिता येन महाविष्णुश्च निर्मितः
येन शुक्लीकृतं क्षीरं जलं शीतं कृतं पुरा
अतितेजः समुत्थाय तेजोरूपाय मूर्त्तये
सर्वस्मै सर्वबीजाय सर्वेषामन्तरात्मने
इत्युक्त्वा पुरतस्तस्यास्तस्थौ धर्मो जगद्गुरुः 4.42.
पद्मोवाच सर्वांतरेषु सर्वात्मा सर्वज्ञः सर्वतत्त्ववित्
कथं मनो मे विज्ञातुं विडंबयसि किंकरीम्
त्वं च शप्तो मयाऽज्ञानात्स्त्रीस्वभावात्क्रुधा विभो
आकाशोऽसौ दिशः सर्वा यदि नश्यन्ति वायवः
त्वं च नष्टो भवसि चेत्सृष्टिनाशो भवेत्तदा
सत्ये पूर्णश्चतुष्पादैः पौर्णमास्यां यथा शशी
पादक्षयश्च त्रेतायां भगवन्भविता तव
कलिशेषे शेषपादस्तवाच्छन्नो भविष्यति
सत्ये सर्वव्यापकस्त्वं तदन्येषु च कुत्रचित्
वैष्णवेषु च सर्वेषु यतिषु ब्रह्मचारिषु 4.42.
नृपेषु धर्मशीलेषु सत्सु सद्वैश्यजातिषु
एषु त्वं सततं पूर्णो धर्मराज विराजसे
अश्वत्थवटबिल्वेषु तुलसीचंदनेषु च
विवाहेषु च पुष्पेषु विद्यमानोऽसि शाखिषु
वेदवेदांगश्रवणे जलेषु च सभासु च । श्रीकृष्णगुणनामोक्त श्रुतिगीतस्थलेषु च
व्रतपूजातपोन्याययज्ञसाक्षिस्थलेषु च