विप्रं तपःसु निरतं सत्यज्ञं मरणोन्मुखम्
प्राप्नोति सुन्दरं पुण्यात्सौन्दर्यं पूर्वजन्मतः
सहस्रसुन्दरीकान्तं कामशास्त्र विशारदम्
निर्जले निर्जने रम्ये शैलेशैले नदेनदे 4.42.
मलये चन्दनारण्ये चारुचन्दनवायुना
कामज्वरेण दग्धायाः शांतिं कर्तुमहं क्षमः
इत्येवमुक्तवंतं तं स्वरथादवरुह्य च
पद्मोवाच मां चेत्पश्यसि कामेन सद्यो भस्म भविष्यसि
पिप्पलादं मुनिश्रेष्ठं तपसा पूतविग्रहम्
स्त्रीजितस्पर्शमात्रेण सर्वपुण्यं प्रणश्यति
मां मातरं च स्त्रीभावं कृत्वा येन ब्रवीषि च
श्रुत्वा धर्मः सतीशापं नृपमूर्तिं विहाय च
धर्म उवाच परस्त्रीमातृबुद्धिं च कुर्वन्तं संततं सति
अहं तवांतर्विज्ञातुमागतस्तव सन्निधिम् 4.42.
कृतं मे दमनं साध्वि न विरुद्धं यथोचितम्
धर्मं स्वधर्मं विज्ञातुं कालं कलयितुं क्षमः
संहर्तुं यः क्षमः काले संहर्तारं भवं विभुः
शत्रुं विधातुं मित्रं च सुप्रीतिं कलहं क्षमः
शापं प्रदातुं सर्वाश्च सुखदुःखवरान्क्षमः
प्रकृतिर्निर्मिता येन महाविष्णुश्च निर्मितः
येन शुक्लीकृतं क्षीरं जलं शीतं कृतं पुरा
अतितेजः समुत्थाय तेजोरूपाय मूर्त्तये
सर्वस्मै सर्वबीजाय सर्वेषामन्तरात्मने
इत्युक्त्वा पुरतस्तस्यास्तस्थौ धर्मो जगद्गुरुः 4.42.
पद्मोवाच सर्वांतरेषु सर्वात्मा सर्वज्ञः सर्वतत्त्ववित्
कथं मनो मे विज्ञातुं विडंबयसि किंकरीम्
त्वं च शप्तो मयाऽज्ञानात्स्त्रीस्वभावात्क्रुधा विभो
आकाशोऽसौ दिशः सर्वा यदि नश्यन्ति वायवः
त्वं च नष्टो भवसि चेत्सृष्टिनाशो भवेत्तदा
सत्ये पूर्णश्चतुष्पादैः पौर्णमास्यां यथा शशी