महिषीं च नृपसुतान्कन्यकानीतिमुत्तमाम्
सुतां दत्त्वा च मुनये रक्षस्व सर्वसंपदम् 4.41.
राजा सर्वान्परित्यज्य जगाम तपसे शुचा
गोलोकनाथं संसेव्य गोलोकं च जगाम ह पुत्रवत्पालयामास प्रजाः सर्वा महीतले
वसिष्ठ उवाच कर्मणा मनसा वाचा लक्ष्मीर्नारायणं यथा
एकदा स्वर्णदीं स्नातुं गच्छंतीं सस्मितां सतीम्
चारुरत्नरथस्थश्च रत्नालंकारभूषितः
दृष्ट्वा तां सुन्दरीं रम्यामुवाच मायया विभुः
धर्म उवाच अतीव यौवनस्थे च कामिनि स्थिरयौवने
जरातुरस्य वृद्धस्य समीपे त्वं न राजसे
विप्रं तपःसु निरतं सत्यज्ञं मरणोन्मुखम्
प्राप्नोति सुन्दरं पुण्यात्सौन्दर्यं पूर्वजन्मतः
सहस्रसुन्दरीकान्तं कामशास्त्र विशारदम्
निर्जले निर्जने रम्ये शैलेशैले नदेनदे 4.42.
मलये चन्दनारण्ये चारुचन्दनवायुना
कामज्वरेण दग्धायाः शांतिं कर्तुमहं क्षमः
इत्येवमुक्तवंतं तं स्वरथादवरुह्य च
पद्मोवाच मां चेत्पश्यसि कामेन सद्यो भस्म भविष्यसि
पिप्पलादं मुनिश्रेष्ठं तपसा पूतविग्रहम्
स्त्रीजितस्पर्शमात्रेण सर्वपुण्यं प्रणश्यति
मां मातरं च स्त्रीभावं कृत्वा येन ब्रवीषि च
श्रुत्वा धर्मः सतीशापं नृपमूर्तिं विहाय च
धर्म उवाच परस्त्रीमातृबुद्धिं च कुर्वन्तं संततं सति
अहं तवांतर्विज्ञातुमागतस्तव सन्निधिम् 4.42.
कृतं मे दमनं साध्वि न विरुद्धं यथोचितम्
धर्मं स्वधर्मं विज्ञातुं कालं कलयितुं क्षमः
संहर्तुं यः क्षमः काले संहर्तारं भवं विभुः
शत्रुं विधातुं मित्रं च सुप्रीतिं कलहं क्षमः
शापं प्रदातुं सर्वाश्च सुखदुःखवरान्क्षमः
प्रकृतिर्निर्मिता येन महाविष्णुश्च निर्मितः