देहि त्वं स्वेच्छया कन्यां देहि भद्र शिवाय च 4.41.
प्राक्तनाद्यस्य या कांता सा तं प्राप्नोति वल्लभम्
विवाहे नोत्सुकः शंभुः स्वात्मारामश्च तत्त्ववित्
देवानां पीडनं दृष्ट्वा ब्रह्मणा प्रार्थितो विभुः
कृत्वा प्रतिज्ञां योगींद्रो दृष्ट्वा क्लेशमसंख्यकम्
तामाश्वास्य वरं दत्त्वा जगाम निजमंदिरम्
नारायणश्च भगवान्ब्रह्मा धर्मश्च सांप्रतम्
तत्र सर्वे मुदा युक्तैः समालोचनकर्तृभिः
तव प्रबोधने प्रीतिर्वर्द्धते महती सदा
शिवां शिवाय शैलेंद्र स्वेच्छया चेन्न दास्यसि ।। । भविता वा विवाहश्च भवितव्यबलेन च
आगमिष्यति देवो यो नारायणसहायवान् 4.41.
योगींद्राणां वरेण्यं तं ज्ञानिनां च गुरोर्गुरुम्
वरं ददौ शिवायै स शिवश्च तपसः स्थले
ब्रह्मादिस्तंबपर्यतं सर्वं नश्वरमस्थिरम्
एको महेंद्रः शैलानां पक्षांश्चिच्छेद लीलया
के वा शैलेषु योद्धारः सुरैः सह हिमालय
एकार्थे यदि शैलेन्द्र सर्वसंपद्विनश्यति
शरणागतरक्षार्थं प्राणांश्च दातुमर्हति
दत्त्वा विप्राय स्वसुतामनरण्यो नृपेश्वर
तमाशु बोधयामासुर्नीतिशास्त्रविदो जनाः
त्वमेव शैलराजेंद्र सुतां दत्त्वा शिवाय च 4.41.
वसिष्ठस्य वचः श्रुत्वा प्रहस्य पर्वतेश्वरः
हिमालय उवाच सुतां दत्त्वा स च कथमरक्षत्सर्वसंपदम्
वसिष्ठ उवाच चिंरजीवी धर्मशीलो वैष्णवो विजितेंद्रियः
स्वायंभुवो मनुः पूर्वं ब्रह्मपुत्रोऽतिधार्मिकः
ततो जगाम वैकुण्ठं सहितः शतरूपया
एकादशो मनुश्रेष्ठो धर्मसावर्णिरुच्यते 4.41.
अपुत्रको नृपश्रेष्ठस्तपसे पुष्करं गतः ।। 4.41.
ततः सुभग्नचित्तः सञ्चिन्तयन्दारसंग्रहम्
ददर्श पद्मां युवती पद्मामिव मनोरमाम् 4.41.