ततो डिम्भः समुद्भूतस्तन्मध्ये च महाविराट्
नाभिपद्मोद्भवो ब्रह्मा तस्यैव जलशायिनः 4.41.
महाविष्णुर्वामपार्श्वात्संभूतो विष्णुरेव च
धत्ते चतुर्विधां मूर्तिं प्रकृतिः कृष्णसंभवा
कृष्णवामांगसंभूता राधा रासेश्वरी स्वयम्
वक्षःस्थलोद्भवा लक्ष्मीः सर्वसंपत्स्वरूपिणी
निहत्य दानवान्सर्वान्देवेभ्यश्च श्रियं ददौ
नाम्ना सती शिवं प्राप दक्षस्तस्मै ददौ च ताम्
पितॄणां मानसी कन्या मेनका तव गेहिनी
शिवा शिवस्य पत्नीयं शैल जन्मनिजन्मनि
देहि त्वं स्वेच्छया कन्यां देहि भद्र शिवाय च 4.41.
प्राक्तनाद्यस्य या कांता सा तं प्राप्नोति वल्लभम्
विवाहे नोत्सुकः शंभुः स्वात्मारामश्च तत्त्ववित्
देवानां पीडनं दृष्ट्वा ब्रह्मणा प्रार्थितो विभुः
कृत्वा प्रतिज्ञां योगींद्रो दृष्ट्वा क्लेशमसंख्यकम्
तामाश्वास्य वरं दत्त्वा जगाम निजमंदिरम्
नारायणश्च भगवान्ब्रह्मा धर्मश्च सांप्रतम्
तत्र सर्वे मुदा युक्तैः समालोचनकर्तृभिः
तव प्रबोधने प्रीतिर्वर्द्धते महती सदा
शिवां शिवाय शैलेंद्र स्वेच्छया चेन्न दास्यसि ।। । भविता वा विवाहश्च भवितव्यबलेन च
आगमिष्यति देवो यो नारायणसहायवान् 4.41.
योगींद्राणां वरेण्यं तं ज्ञानिनां च गुरोर्गुरुम्
वरं ददौ शिवायै स शिवश्च तपसः स्थले
ब्रह्मादिस्तंबपर्यतं सर्वं नश्वरमस्थिरम्
एको महेंद्रः शैलानां पक्षांश्चिच्छेद लीलया
के वा शैलेषु योद्धारः सुरैः सह हिमालय
एकार्थे यदि शैलेन्द्र सर्वसंपद्विनश्यति
शरणागतरक्षार्थं प्राणांश्च दातुमर्हति
दत्त्वा विप्राय स्वसुतामनरण्यो नृपेश्वर
तमाशु बोधयामासुर्नीतिशास्त्रविदो जनाः