पितॄणां मानसी कन्या मां जानीहि विधेर्वधूम् उवाच शिरसा नत्वा तां पद्मामिव तेजसा
वधूर्जगद्विधेः पत्नी वसिष्ठस्य ममालये
ईश्वरी जगतां स्रष्टुरागता बहुपुण्यतः 4.41.
भोजयामास मिष्टान्नं बुभुजे कन्यया सह
अरुन्धती प्रसङ्गेन संबन्धयोजनानि च बोधयामासुः संबन्धयोजनानि प्रसङ्गतः
शिवाय पार्वतीं देहि संहर्तुः श्वशुरो भव
तव शङ्काविनाशाय ब्रह्मसंबन्धकर्मणि
विधेः प्रार्थनया देव तव कन्यां ग्रहीष्यति
हेतुद्वयेन योगीन्द्रो विवाहं च करिष्यति उवाच किंचिद्भीतश्च परं विनयपूर्वकम्
हिमालय उवाच किंचिदाश्रममैश्वर्यं किं वा स्वजनबान्धवम्
न कन्यामतिनिर्लिप्तयोगिने दातुमर्हति
नानुरूपाय पुत्राय पिता कन्या ददाति चेत् 4.41.
न हि दास्याम्यहं कन्यामिच्छया शूलपाणिने
हिमालयवचः श्रुत्वा वसिष्ठो विधिनन्दनः
वसिष्ठ उवाच सर्वं जानाति शास्त्रज्ञो निर्मलज्ञानचक्षुषा
असत्यमहितं पश्चात्साम्प्रतं श्रुतिसुन्दरम्
आपातप्रीतिजनकं परिणामसुखावहम्
श्रुतिमात्रात्सुधातुल्यं सर्वकाले सुखावहम्
एवं च त्रिविधं शैल नीतिशास्त्रनिरूपितम्
बाह्यसंपद्विहीनश्च शंकरस्त्रिदशेश्वरः
आपातभ्रमसंपत्तिर्विद्युच्छ्रीरिव नाशिनी
गृही ददाति स्वसुतां राज्यसंपत्तिशालिने 4.41.
को वदेच्छंकरो दुःखी कुबेरो यस्य किंकरः
निर्गुणः परमात्मा च य ईशः प्रकृतेः परः
स एकः सृष्टिसंहारे स सर्वः सृष्टिकर्मणि
य ईशस्त्रिविधां मूर्तिं विधत्ते सृष्टिकर्मणि
ब्रह्मा च ब्रह्मलोकस्थो विष्णुः क्षीरोदवासकृत्
श्रीकृष्णश्च द्विधाभूतो द्विभुजश्च चतुर्भुजः
तस्य देवस्य तेंऽशाश्च ब्रह्मविष्णुमहेश्वराः
कृष्णः सृष्ट्युन्मुखश्चापि प्रकृतिं तत्र निर्ममे