मुक्तापङ्क्तिविनिन्दैकदन्तपंक्तिमनोहरम्
कोटिकन्दर्पलावण्यं लीलाधाम मनोहरम्
त्रिभङ्गसङ्गि वा युक्तं द्विभुजं पीतवाससम्
रत्नकुण्डलयुग्मेन गण्डस्थलविराजितम्
शोभितं जानुपर्य्यन्तं मालतीवनमालया
मणिना कौस्तुभेन्द्रेण वक्षस्थलसमुज्ज्वलम् 1.21.
स्थिरयौवनयुक्ताभिर्वेष्टिताभिश्च सन्ततम्
ब्रह्मविष्णुशिवाद्यैश्च पूजितं वन्दितं स्तुतम्
निर्लिप्तं साक्षिरूपं च निर्गुणं प्रकृतेः परम्
इदं ते कथितं ध्यानं स्तोत्रं च कवचं मुने
साम्प्रतं बालकस्तस्थौ ध्यानस्थस्तत्र शौनक
शक्तिमान्परिपुष्टश्च सिद्धमन्त्रप्रभावत
रत्नसिंहासनस्थं च रत्नभूषणभूषितम्
गोपैर्गोपाङ्गनाभिश्च वेष्टितं पीतवाससम्
ब्रह्मविष्णुशिवाद्यैश्च स्तूयमानं परात्परम्
विरराम च शोकार्तो यदा तद्द्रष्टुमक्षमः 1.21.
बभूवाकाशवाणीति रुदन्तं बालकं प्रति
सकृद्यद्दर्शितं रूपं तदेव नाधुना पुनः
एतस्मिन्विग्रहेऽतीते संप्राप्ते दिव्यविग्रहे
इति श्रुत्वा बालकश्च विरराम मुदाऽन्वितः
नेदुर्दुन्दुभयः स्वर्गे पुष्पवृष्टिर्बभूव ह
तनुं त्वक्वा स जीवश्च विलीनो ब्रह्मविग्रहे
आविर्भावस्तिरोभावः स्वेच्छया नित्यदेहिनाम्
सौतिरुवाच मरीचिमिश्रैमुनिभिः सार्द्धं कण्ठाद्बभूव सः
विधेर्नारदनाम्नश्च कण्ठदेशाद्बभूव सः
यः पुत्रश्चेतसो धातुर्बभूव मुनिपुंगवः
बभूव धातुर्यः पुत्रः सहसा दक्षपार्श्वतः
वेदेषु कर्दमः शब्दश्छायायां वर्त्तते स्फुटः
तेजोभेदे मरीचिश्च वेदेषु वर्त्तते स्फुटम्
क्रतुसंघश्च बालेन कृतो जन्मान्तरेऽधुना