नित्यं धर्मस्तं घटते नाधर्मे तद्रतिर्भवेत्
तं दृष्ट्वा सर्वपापानि पलायन्ते भयेन च
इति ब्रह्मवैवर्त्ते धर्मकृतं श्रीकृष्णस्तोत्रम् आविर्बभूव कन्यैका धर्मस्य वामपार्श्वतः
आविर्बभूव तत्पश्चान्मुखतः परमात्मनः
कोटिपूर्णेन्दुशोभा ढ्या शरत्पङ्कजलोचना
सस्मिता सुदती श्यामा सुन्दरीणां च सुन्दरी
वागधिष्ठातृदेवी सा कवीनामिष्टदेवता
गोविन्दपुरतः स्थित्वा जगौ प्रथमतः सुखम्
कृतानि यानि कर्माणि कल्पेकल्पे युगेयुगे
सरस्वत्युवाच रत्नसिंहासनस्थं च रत्नभूषणभूषितम् ।। 1.3.
रासेश्वरं रासकरं वरं रासेश्वरीश्वरम्
रासायासपरिश्रान्तं रासरासविहारिणम्
प्रणम्य च तमित्युक्त्वा प्रहृष्टवदना सती
इति वाणीकृतं स्तोत्रं प्रातरुत्थाय यः पठेत
इति ब्रह्मवैवर्ते सरस्वतीकृतं श्रीकृष्णस्तोत्रम् आविर्बभूव मनसः कृष्णस्य परमात्मनः
पीतवस्त्रपरीधाना सस्मिता नवयौवना स्वर्गे च स्वर्गलक्ष्मीश्च राजलक्ष्मीश्च राजसु
सा हरेः पुरतः स्थित्वा परमात्मानमीश्वरम्
महालक्ष्मीरुवाच सत्याधारं च सत्यज्ञं सत्यमूलं नमाम्यहम्
इत्युक्त्वा श्रीहरिं नत्वा सा चोवास सुखासने
आविर्बभूव तत्पश्चाद् बुद्धेश्च परमात्मनः 1.3.
तप्तकाञ्चनवर्णाभा सूर्य्यकोटिसमप्रभा
रक्तवस्त्रपरीधाना रत्नाभरणभूषिता
तासां च सर्वशक्तीनामीशाधिष्ठातृदेवता
आत्मनः शक्तिरूपा सा जगतां जननी परा
शंख चक्रगदापद्ममक्षमालां कमण्डलुम्
नारायणास्त्रं ब्रह्मास्त्रं रौद्रं पाशुपतं तथा कृष्णस्य पुरतः स्थित्वा तुष्टाव तं मुदाऽन्विता
प्रकृतिरुवाच सर्वशक्तिस्वरूपा च मया च शक्तिमज्जगत्
त्वया सृष्टा न स्वतन्त्रा त्वमेव जगतां पतिः
स्रष्टुं स्रष्टा च संहर्तुं संहर्ता वेधसा विधिः चक्षुर्निमेषकाले च ब्रह्मणः पतनं भवेत्
तस्य प्रभावमतुलं वर्णितुं कः क्षमो विभो 1.3.