ब्रह्मोवाच संपद्विनाशरूपां च विपदो बीजरूपिणीम्
भूतेशं प्रस्थापयत स्वात्मनिन्दां करोति सः
ब्रह्मणो वचनं श्रुत्वा तं प्रणम्य सुराः प्रिये
सर्वे निवेदनं चक्रुः शंकरं करुणालयम्
देवा मुमुदिरे सर्वे शीघ्रं गत्वा स्वमन्दिरम् 4.41.
अथ शैलः सभामध्ये समुवास मुदाऽन्वितः
एतस्मिन्नन्तरे तत्र विप्ररूपी शिवः स्वयम्
दण्डी छत्री दीर्घवासा बिभ्रत्तिलकमुत्तमम्
तं च दृष्ट्वा समुत्तस्थौ सगणश्च हिमालयः
ननाम पार्वती भक्त्या प्राणेशं विप्ररूपिणम्
शैलदत्तासने शीघ्रमुवास ब्राह्मणः स्वयम्
पप्रच्छ कुशलं शैलो ब्राह्मणं को भवानिति
घाटिकां वृत्तिमाश्रित्य भ्रमामि धरणीतले
मया ज्ञातं शंकराय सुतां दातुं त्वमिच्छसि
निराश्रयायासङ्गयारूपाय निर्गुणाय च 4.41.
दिग्वाससेऽहिगात्राय विभूतिभूषणाय च
अज्ञातमृत्यवेऽज्ञायानाथायाबन्धवे भवे
अज्ञातवयसेऽतीव वृद्धाय चाविकारिणे
निबोध ज्ञानिनां श्रेष्ठं नारायणं कुलोद्भवम्
महाजनः स्मेरमुखः श्रुतिमात्राद्भविष्यति
बान्धवान्मेनकां प्रश्नं कुरु शीघ्रं प्रयत्नतः
रोगिणे नौषधं शश्वत्कुपथ्यं रोचते सदा
जगाम स्वालयं शान्तो वृन्दावनविनोदिनि शोकेन साश्रुनयना हृदयेन विदूयता
पृच्छ शैलवरानस्मै न दास्यामि सुतामहम् 4.41.
गले बद्ध्वाऽम्बिकां पश्य यास्यामि घोरकाननम्
त्यक्त्वाऽऽहारं रुदन्ती च चकार शयनं भुवि
आजगाम पुनस्तैश्च युक्ता पश्चादरुन्धती
दत्त्वा षोडशोपचारान्पूजयामास भक्तितः
जगामारुन्धती तूर्णं यत्र मेना च पार्वती
उवाच मधुरं साध्वी सावधानां हितं वचः उत्तिष्ठ मेनके साध्वि त्वद्गृहेऽहमरुन्धती