चन्दनोक्षितसर्वाङ्गं भक्तानुग्रहकातरम्
गात्रे शिरसि तत्सर्वं भिक्षुकस्य ददर्श ह
ददर्श शैलस्तत्सर्वं भिक्षुकस्य पुरः स्थितम्
गोपवेषं किशोरं च सस्मितं श्यामसुन्दरम्
चन्दनोक्षितसर्वाङ्गं वनमालाविभूषितम्
त्रिशूलपट्टिशकरं व्याघ्रचर्माम्बरं परम्
नागयज्ञोपवीतं च तप्तस्वर्णजटाधरम्
प्रजपन्तं हरेर्नाम श्वेताब्जबीजमालया
स्वतेजसा प्रज्वलन्तं पञ्चवक्त्रं त्रिलोचनम् 4.40.
तदा बभूव ज्ञानं च मेनकाशैलयोः प्रिये 4.40.
शठाय संध्याहीनाय वाप्यैकफलदा सुता 4.40.
अनन्तरत्नाधारं च त्वमेव रक्ष भारते 4.40.
विष्णुभक्तिप्रदं चैव पुराणं च श्रुतेः परम् 4.40.
अनिच्छया सुतां दत्त्वा सुखं तिष्ठतु भारते 4.40.
इत्येवं कथितं सर्वं देवा गच्छन्तु मन्दिरम्
श्रीकृष्ण उवाच सर्वे निवेदनं चक्रुर्ब्रह्माणं जगतां पतिम्
देवा ऊचुः तव सृष्टौ जगत्स्रष्टा रत्नाधारो हिमालयः
सुतां शूलभृते दत्त्वा भक्त्या शैलेश्वरः स्वयम्
त्वं तस्य निन्दनं कृत्वा विमतिं प्रतिपादय
देवानां वचनं श्रुत्वा तानुवाच विधिः स्वयम्
ब्रह्मोवाच संपद्विनाशरूपां च विपदो बीजरूपिणीम्
भूतेशं प्रस्थापयत स्वात्मनिन्दां करोति सः
ब्रह्मणो वचनं श्रुत्वा तं प्रणम्य सुराः प्रिये
सर्वे निवेदनं चक्रुः शंकरं करुणालयम्
देवा मुमुदिरे सर्वे शीघ्रं गत्वा स्वमन्दिरम् 4.41.
अथ शैलः सभामध्ये समुवास मुदाऽन्वितः
एतस्मिन्नन्तरे तत्र विप्ररूपी शिवः स्वयम्
दण्डी छत्री दीर्घवासा बिभ्रत्तिलकमुत्तमम्
तं च दृष्ट्वा समुत्तस्थौ सगणश्च हिमालयः
ननाम पार्वती भक्त्या प्राणेशं विप्ररूपिणम्