सहसैक आजगाम मेनकासन्निधिं मुदा
कृत्वा विभूतिगात्रोऽतिवृद्धोऽतीव जरातुरः
जगौ मम गुणाख्यानं कृत्वा नृत्यं मनोहरम्
आजग्मुर्नागरा बाला बालिका हर्षविह्वलाः
श्रुत्वा तु सुन्दरं गीतं सुतानस्वरसंयुतम्
मूर्छां संप्राप सा दुर्गा ददर्श हृदि शङ्करम्
विभूतिभूषणं रम्यमस्थिमालां सुनिर्मलाम्
मालाहस्तं पंचवक्त्रं नागयज्ञोपवीतकम्
हृदयस्थं हरं दृष्ट्वा मनसा तं ननाम सा 4.40.
एवं दत्त्वा शिवस्तस्य चान्तर्धानं चकार सः
ददर्श चक्षुरुन्मील्य भिक्षुकं गायकं पुरः
दातुं ययौ सा रत्नानि स्वर्णपात्रस्थितानि च
पुनश्च नर्तनं कर्तुमुद्यतः कौतुकेन च
भिक्षुकं भर्त्सयामास बहिः कर्तुमुवाच तम्
याञ्चामिमां प्रकुर्वन्तं दूरं कुरु सुभाषिणम्
ददर्श पुरतो भिक्षुं प्राङ्गणस्थं मनोहरम्
तन्मूर्तिध्यानविश्लेषशोकादुद्विग्नमानसः
आज्ञां चकार स्वचरं बहिः कर्तुं च भिक्षुकम्
न शशाक बहिः कर्तुं समीपं गन्तुमक्षमः 4.40.
किरीटिनं कुण्डलिनं पीताम्बरधरं परम्
चन्दनोक्षितसर्वाङ्गं भक्तानुग्रहकातरम्
गात्रे शिरसि तत्सर्वं भिक्षुकस्य ददर्श ह
ददर्श शैलस्तत्सर्वं भिक्षुकस्य पुरः स्थितम्
गोपवेषं किशोरं च सस्मितं श्यामसुन्दरम्
चन्दनोक्षितसर्वाङ्गं वनमालाविभूषितम्
त्रिशूलपट्टिशकरं व्याघ्रचर्माम्बरं परम्
नागयज्ञोपवीतं च तप्तस्वर्णजटाधरम्
प्रजपन्तं हरेर्नाम श्वेताब्जबीजमालया
स्वतेजसा प्रज्वलन्तं पञ्चवक्त्रं त्रिलोचनम् 4.40.
तदा बभूव ज्ञानं च मेनकाशैलयोः प्रिये 4.40.