मोक्षं वाञ्छसि चेद्देवि कृत्वा कान्तं स्वरूपिणम्
शिवश्च मङ्गले मोक्षे संहर्ता न च दृश्यते
तं च संहारकर्तारं यदि वाञ्छसि सुन्दरि
न भविष्यति मोक्षस्ते स्वाभीष्टं देवसेवनम्
शीघ्रं पितुर्गृहं गच्छ तत्र द्रक्ष्यसि शंकरम्
इत्युक्त्वा पार्वतीं विप्रस्तत्रैवान्तरधीयत
पार्वत्यागमनं श्रुत्वा मेनका च हिमालयः
संस्थाप्य मंगलघटान्राजवर्त्मनि राधिके
पट्टसूत्रसन्निबद्धरसालपल्लवान्वितैः 4.40.
पतिपुत्रवतीयोषित्समूहैर्दीपहस्तकैः
सुपुण्यैर्ब्राह्मणैश्चापि मुनिभिर्ब्रह्मचारिभिः
पुरोहितैश्च संयुक्तैः कुर्वद्भिर्मङ्गलध्वनिम् ।। सुचारुमालतीमालाहस्तैः शस्तैः प्रशंसितैः
नानाप्रकारवाद्यैश्च शंखध्वनिसुनादितैः
प्रविश्य नगरं दुर्गा ददर्श पितरौ पुरः
प्रसन्नवदना देवी चालिभिः प्रणनाम तौ
हे वत्से वत्सेत्युच्चार्य रुदन्तौ प्रेमविह्वलौ
स्त्रियो निर्मंच्छनं चक्रुर्विप्रा युयुजुराशिषम्
मङ्गलं कारयामास पाठयामास छान्दसम्
सुखेन वसतौ तौ हि हर्षनिर्भरमानसौ 4.40.
मेनकाकन्यया सार्द्धमुवास प्राङ्गणे मुदा
सहसैक आजगाम मेनकासन्निधिं मुदा
कृत्वा विभूतिगात्रोऽतिवृद्धोऽतीव जरातुरः
जगौ मम गुणाख्यानं कृत्वा नृत्यं मनोहरम्
आजग्मुर्नागरा बाला बालिका हर्षविह्वलाः
श्रुत्वा तु सुन्दरं गीतं सुतानस्वरसंयुतम्
मूर्छां संप्राप सा दुर्गा ददर्श हृदि शङ्करम्
विभूतिभूषणं रम्यमस्थिमालां सुनिर्मलाम्
मालाहस्तं पंचवक्त्रं नागयज्ञोपवीतकम्
हृदयस्थं हरं दृष्ट्वा मनसा तं ननाम सा 4.40.
एवं दत्त्वा शिवस्तस्य चान्तर्धानं चकार सः