निर्जने बालकं दृष्ट्वा स्निग्धा सापि जगाद ह
को भवानिति पप्रच्छ तं शिशुं पुरतः स्थितम्
श्रुत्वा शैलसुता प्रश्नं प्रहस्य परमेश्वरः
शंकर उवाच का त्वं कान्ताऽतिकान्तारे तपश्चरसि सुन्दरि
वद कस्य कुले जाता कस्य कन्या च काऽभिधा
अहो वा तपसां राशिः स्वयं मूर्तिमती सती
स्वयं तेजःस्वरूपा वा मूलप्रकृतिरीश्वरी
किं वा त्रिलोके लक्ष्मीस्त्वं संपद्रूपा सनातनी
किं वाम्बिका त्वं देवानां स्वयं मूर्तिमती सती 4.40.
रागाधिष्ठातृदेवी वा स्वयं साक्षात्सरस्वती
एतासु मध्ये का वा त्वं नाहं तर्कितुमीश्वरः
सति त्वयि प्रसन्नायां प्रसन्नः परमेश्वरः
तुष्टे नारायणे देवे शश्वत्तुष्टं जगत्त्रयम्
शिशोस्तद्वचनं श्रुत्वा प्रहस्य परमेश्वरी
पार्वत्युवाच जन्म मे भारते वर्षे साम्प्रतं शैलकन्यका
पूर्वं जन्म दक्षगेहे सती शंकरकामिनी
अत्र जन्मनि पुण्येन सम्प्राप्ते शंकरे द्विज
प्रयाते शंकरे तापाद्व्रीडयाऽहं पितुर्गृहात्
तपः कृत्वा कठोरं च सुचिरं प्राणवल्लभम् 4.40.
गच्छ त्वं प्रविशाम्यग्नौ प्रलयाग्निशिखोपमे
यत्र यत्र जनुर्लब्ध्वा लभिष्यामि शिवं परम्
सर्वा हि स्वप्रियं लब्धुं लभन्ति जन्म वाञ्छितम्
प्राक्तनीयो हि यो भर्ता स तासां प्रतिजन्मनि
तद्देहमिह न प्राप्य कृत्वा घोरतरं तपः
इत्युक्त्वा पार्वती तत्र तत्पुरः प्रविवेश ह
वह्निप्रवेशं कुर्वन्त्याः पार्वत्याः परमेश्वरि
क्षणं तदन्तरे स्थित्वा चोत्पतन्तीं शिवां शिवः
श्रीमहादेव उवाच न दग्धो वह्निना देहो न च प्राप्तो मनीषितः
शिवं कल्याणरूपं च भर्तारं कर्तुमिच्छसि 4.40.
संहर्तारं च भर्तारं यदीच्छसि शुचिस्मिते