वटमूलाद्गते रुद्रे पार्वती तपसे ययौ
गत्वा सा स्वर्णदीतीरं स्नात्वा त्रिषवणं मुदा
वर्षमेकं च संपूर्णमनाहारा स्वभक्तितः
ग्रीष्मे च परितो वह्निं प्रज्वलन्तं दिवानिशम् कृत्वा प्रतस्थौ तन्मध्ये संततं जपती मनुम्
शश्वत्स्मशाने वर्षासु कृत्वा योगासनं शिवा
शीते जलान्तरे शश्वत्प्रतस्थौ भक्तिपूर्वकम्
एवं कृत्वा परं वर्षमप्राप्य शंकरं सती
तामग्निकुण्डं विशतीं तपसाऽतिकृशां सतीम्
अतीव वामनो बालो विप्ररूपी स्वतेजसा 4.40.
शुक्लयज्ञोपवीती च शुक्लवासाश्च सस्मितः
निर्जने बालकं दृष्ट्वा स्निग्धा सापि जगाद ह
को भवानिति पप्रच्छ तं शिशुं पुरतः स्थितम्
श्रुत्वा शैलसुता प्रश्नं प्रहस्य परमेश्वरः
शंकर उवाच का त्वं कान्ताऽतिकान्तारे तपश्चरसि सुन्दरि
वद कस्य कुले जाता कस्य कन्या च काऽभिधा
अहो वा तपसां राशिः स्वयं मूर्तिमती सती
स्वयं तेजःस्वरूपा वा मूलप्रकृतिरीश्वरी
किं वा त्रिलोके लक्ष्मीस्त्वं संपद्रूपा सनातनी
किं वाम्बिका त्वं देवानां स्वयं मूर्तिमती सती 4.40.
रागाधिष्ठातृदेवी वा स्वयं साक्षात्सरस्वती
एतासु मध्ये का वा त्वं नाहं तर्कितुमीश्वरः
सति त्वयि प्रसन्नायां प्रसन्नः परमेश्वरः
तुष्टे नारायणे देवे शश्वत्तुष्टं जगत्त्रयम्
शिशोस्तद्वचनं श्रुत्वा प्रहस्य परमेश्वरी
पार्वत्युवाच जन्म मे भारते वर्षे साम्प्रतं शैलकन्यका
पूर्वं जन्म दक्षगेहे सती शंकरकामिनी
अत्र जन्मनि पुण्येन सम्प्राप्ते शंकरे द्विज
प्रयाते शंकरे तापाद्व्रीडयाऽहं पितुर्गृहात्
तपः कृत्वा कठोरं च सुचिरं प्राणवल्लभम् 4.40.
गच्छ त्वं प्रविशाम्यग्नौ प्रलयाग्निशिखोपमे