न विशेषं समासं च श्रुतं न व्यासमीप्सितम्
किं किं तपः कठोरं च चकार पार्वती स्वयम्
रतिः केन प्रकारेण जीवयामास मन्मथम्
तयो रहसि संभोगं पापिनां पापमोचनम्
दम्पतीविरहोक्तिश्च कर्णज्वाला च योषितः
अग्निज्वाला विषज्वाला क्षमा सोढुं च योषितः
राधिकावचनं श्रुत्वा विस्मितश्चकिताननः
दम्पतीविरहोक्तिं च यां राधा श्रोतुमक्षमा
इत्येवं मानसे कृत्वा मायेशो माययाऽन्वितः 4.40.
श्रीकृष्ण उवाच प्राणाधिदेवि प्राणेशि प्राणाधारे मनोहरे
वटमूलाद्गते रुद्रे पार्वती तपसे ययौ
गत्वा सा स्वर्णदीतीरं स्नात्वा त्रिषवणं मुदा
वर्षमेकं च संपूर्णमनाहारा स्वभक्तितः
ग्रीष्मे च परितो वह्निं प्रज्वलन्तं दिवानिशम् कृत्वा प्रतस्थौ तन्मध्ये संततं जपती मनुम्
शश्वत्स्मशाने वर्षासु कृत्वा योगासनं शिवा
शीते जलान्तरे शश्वत्प्रतस्थौ भक्तिपूर्वकम्
एवं कृत्वा परं वर्षमप्राप्य शंकरं सती
तामग्निकुण्डं विशतीं तपसाऽतिकृशां सतीम्
अतीव वामनो बालो विप्ररूपी स्वतेजसा 4.40.
शुक्लयज्ञोपवीती च शुक्लवासाश्च सस्मितः
निर्जने बालकं दृष्ट्वा स्निग्धा सापि जगाद ह
को भवानिति पप्रच्छ तं शिशुं पुरतः स्थितम्
श्रुत्वा शैलसुता प्रश्नं प्रहस्य परमेश्वरः
शंकर उवाच का त्वं कान्ताऽतिकान्तारे तपश्चरसि सुन्दरि
वद कस्य कुले जाता कस्य कन्या च काऽभिधा
अहो वा तपसां राशिः स्वयं मूर्तिमती सती
स्वयं तेजःस्वरूपा वा मूलप्रकृतिरीश्वरी
किं वा त्रिलोके लक्ष्मीस्त्वं संपद्रूपा सनातनी
किं वाम्बिका त्वं देवानां स्वयं मूर्तिमती सती 4.40.
रागाधिष्ठातृदेवी वा स्वयं साक्षात्सरस्वती