शान्तं त्रैलोक्यकान्तं च प्रसन्नवदनेक्षणम्
चिक्षेपास्त्रं दुर्निवार्यममोघं शंकरे मुदा
आकाश इव निर्लिप्ते निर्लिप्ते परमात्मनि
चकम्पे पुरतः स्थित्वा दृष्ट्वा मृत्युंजयं विभुम्
चक्रुः स्तुतिं च स्तोत्रेण शंकरं त्रिदशेश्वरम् ।।4.39.५०. स्तुतिं कुर्वत्सु देवेषु स वह्निः शंभुसंभवः
जज्वालोर्ध्वशिखो दीप्तः प्रलयाग्निशिखोपमः भ्रामंभ्रामं च परितः पपात मदनोपरि
बभूव भस्मसात्कामः क्षणेन हरकोपतः
विललाप बहुतरं हरस्य पुरतो रतिः
रतिमूचुः सुराः सर्वे रुरुदुश्च मुहुर्मुहुः
वयं तं जीवयिष्यामो लभिष्यसि प्रियं पुनः
दृष्ट्वा रतेर्विलापं च मूर्च्छां संप्राप पार्वती
रुदन्तीं पार्वतीं त्यक्त्वा स्वस्थानं प्रययौ शिवः
रूपयौवनयोर्गर्वं तत्याज शैलकन्यका
सुराश्च रतिमाश्वास्य सर्वे जग्मुः स्वमन्दिरम् 4.39.
स्तुत्वा रुदित्वा शोकेन भयेन कामकामिनी
न जगाम पितुर्गेहं पार्वती सा तु लज्जया
प्रजग्मुः सहचारिण्यस्तत्पश्चाच्छोकविह्वलाः
सुचिरं च तपस्तप्त्वा सा संप्राप त्रिलोचनम्
इत्येवं कथितं सर्वं पार्वतीदर्पमोक्षणम्
श्रीराधिकोवाच सुन्दरं श्रुतिपीयूषं निगूढं ज्ञानकारणम्
न विशेषं समासं च श्रुतं न व्यासमीप्सितम्
किं किं तपः कठोरं च चकार पार्वती स्वयम्
रतिः केन प्रकारेण जीवयामास मन्मथम्
तयो रहसि संभोगं पापिनां पापमोचनम्
दम्पतीविरहोक्तिश्च कर्णज्वाला च योषितः
अग्निज्वाला विषज्वाला क्षमा सोढुं च योषितः
राधिकावचनं श्रुत्वा विस्मितश्चकिताननः
दम्पतीविरहोक्तिं च यां राधा श्रोतुमक्षमा
इत्येवं मानसे कृत्वा मायेशो माययाऽन्वितः 4.40.
श्रीकृष्ण उवाच प्राणाधिदेवि प्राणेशि प्राणाधारे मनोहरे