भावानुरक्ता हर्षेण जगाम शिवसंनिधिम्
सप्तप्रदक्षिणं कृत्वा सस्मिता प्रणनाम सा
सुंदरं लभ भर्तारं सुन्दरीत्याशिषं ददौ
पुत्रस्ते भविता साध्वि नारायणसमो गुणैः
ब्रह्माण्डेषु च सर्वेषु सर्वेषां च परा भव 4.39.
सप्तजन्मनि तुष्टोऽहं तत्फलं लभ सुन्दरि
आस्था च यादृशी यासां सिद्धिस्तासां च तादृशी
दध्यौ योगासनं कृत्वा योगीशो व्याघ्रचर्मणि
चकार मार्जनं भक्त्या वह्निशौचेन वाससा
अपूर्वं कांस्यपात्रस्थं नैवेद्यं प्रददौ किल
सुगन्धिचन्दनं चारु कस्तूरीकुङ्कुमान्वितम्
भक्त्या पूजां चकाराथ पुष्पवृष्टिं च तुष्टये
रत्नप्रदीपशतकं समन्ताद्धूपमुत्तमम्
सुगन्धिशीततोयं च पानार्थं पार्वती ददौ
दुर्लभां कामधेनुं च स्वर्णशृङ्गसमन्विताम् 4.39.
दत्त्वा षोडशोपचारं प्रणनाम पुनः पुनः
शुश्रावाप्सरसां वक्त्राद्देवीमिन्द्रो महेश्वरः
दूतद्वारा कामदेवमानिनाय त्वरान्वितः
तूर्णं प्रस्थापयामास तं च यत्र शिवः शिवा
प्रसन्नवदनः श्रीमान्यत्र शक्तियुतः शिवः
शान्तं त्रैलोक्यकान्तं च प्रसन्नवदनेक्षणम्
चिक्षेपास्त्रं दुर्निवार्यममोघं शंकरे मुदा
आकाश इव निर्लिप्ते निर्लिप्ते परमात्मनि
चकम्पे पुरतः स्थित्वा दृष्ट्वा मृत्युंजयं विभुम्
चक्रुः स्तुतिं च स्तोत्रेण शंकरं त्रिदशेश्वरम् ।।4.39.५०. स्तुतिं कुर्वत्सु देवेषु स वह्निः शंभुसंभवः
जज्वालोर्ध्वशिखो दीप्तः प्रलयाग्निशिखोपमः भ्रामंभ्रामं च परितः पपात मदनोपरि
बभूव भस्मसात्कामः क्षणेन हरकोपतः
विललाप बहुतरं हरस्य पुरतो रतिः
रतिमूचुः सुराः सर्वे रुरुदुश्च मुहुर्मुहुः
वयं तं जीवयिष्यामो लभिष्यसि प्रियं पुनः