काश्चिन्निमेषरहिताः कामेन पुलकांचिताः
काश्चिद्विनिंद्य कांतांश्च प्रशशंसुर्महेश्वरम्
काचिन्मानसिकं कामात्कुर्वन्ती चुम्बनं मुदा
अस्माकमेव भर्ता चेत्परत्रैव यशो भवेत्
सस्मिता वक्रनयनाः पश्यंत्येव पुनःपुनः 4.39.
शरत्सुधांशुवदनं द्रक्ष्यामोऽहर्निशं मुदा
भविता नः शिवः स्वामीत्येवं जल्पंति काश्चन
यस्या अयं शिवः स्वामीत्येवं जल्पंति काश्चन
शिवं संपूज्य शैलेंद्रः प्रणम्य स्वगृहं ययौ
दुर्गां प्रस्थापयामास शिवाय शिवसन्निधिम्
भावानुरक्ता हर्षेण जगाम शिवसंनिधिम्
सप्तप्रदक्षिणं कृत्वा सस्मिता प्रणनाम सा
सुंदरं लभ भर्तारं सुन्दरीत्याशिषं ददौ
पुत्रस्ते भविता साध्वि नारायणसमो गुणैः
ब्रह्माण्डेषु च सर्वेषु सर्वेषां च परा भव 4.39.
सप्तजन्मनि तुष्टोऽहं तत्फलं लभ सुन्दरि
आस्था च यादृशी यासां सिद्धिस्तासां च तादृशी
दध्यौ योगासनं कृत्वा योगीशो व्याघ्रचर्मणि
चकार मार्जनं भक्त्या वह्निशौचेन वाससा
अपूर्वं कांस्यपात्रस्थं नैवेद्यं प्रददौ किल
सुगन्धिचन्दनं चारु कस्तूरीकुङ्कुमान्वितम्
भक्त्या पूजां चकाराथ पुष्पवृष्टिं च तुष्टये
रत्नप्रदीपशतकं समन्ताद्धूपमुत्तमम्
सुगन्धिशीततोयं च पानार्थं पार्वती ददौ
दुर्लभां कामधेनुं च स्वर्णशृङ्गसमन्विताम् 4.39.
दत्त्वा षोडशोपचारं प्रणनाम पुनः पुनः
शुश्रावाप्सरसां वक्त्राद्देवीमिन्द्रो महेश्वरः
दूतद्वारा कामदेवमानिनाय त्वरान्वितः
तूर्णं प्रस्थापयामास तं च यत्र शिवः शिवा
प्रसन्नवदनः श्रीमान्यत्र शक्तियुतः शिवः