साम्प्रतं शिशुवृत्तान्तं सावधानं निशामय
ववृधे गोपिकाबालो विप्रगेहे दिनेदिने
एतस्मिन्नन्तरे विप्रा आययुर्विप्रमन्दिरम्
प्रच्छन्नं हृतवन्तश्च ग्रीष्ममध्याह्नभास्करम्
फलमूलादिकं काले चत्वारो मुनिपुङ्गवाः
चतुर्थको मुनिस्तस्मै कृष्णमन्त्रं ददौ मुदा 1.21.
एकदा शिशुमाता च गच्छन्ती निशि वर्त्मनि
सद्यो जगाम वैकुण्ठं विष्णुयानेन सा सती
प्रातर्बालो द्विजैः सार्धं प्रययौ विप्रमन्दिरात्
ब्रह्मपुत्राः शिशुं त्यक्त्वा स्वस्थानं प्रययुः किल
तत्र स्नात्वा विप्रदत्तं विष्णुमन्त्रं जजाप सः
महारण्ये च घोरे च अश्वत्थमूलसन्निधौ
शौनक उवाच दत्तं परं श्रींहरेश्च तद्भवान्वक्तु मर्हति
सौतिरुवाच द्वाविंशत्यक्षरो मन्त्रो वेदेषु च सुदुर्लभः
तं च ब्रह्मा ददौ भक्त्या कुमाराय च धीमते
ॐ श्रीं नमो भगवते रास मण्डलेश्वराय 1.21.
महापुरुषस्तोत्रं च पूर्वोक्तं कवचं च यत्
तेजोमण्डलरूपे च सूर्य्यकोटिसमप्रभे
ध्यायन्ते वैष्णवा रूपं तदभ्यन्तरसन्निधौ
नवीनजलदश्यामं शरत्पङ्कजलोचनम्
मुक्तापङ्क्तिविनिन्दैकदन्तपंक्तिमनोहरम्
कोटिकन्दर्पलावण्यं लीलाधाम मनोहरम्
त्रिभङ्गसङ्गि वा युक्तं द्विभुजं पीतवाससम्
रत्नकुण्डलयुग्मेन गण्डस्थलविराजितम्
शोभितं जानुपर्य्यन्तं मालतीवनमालया
मणिना कौस्तुभेन्द्रेण वक्षस्थलसमुज्ज्वलम् 1.21.
स्थिरयौवनयुक्ताभिर्वेष्टिताभिश्च सन्ततम्
ब्रह्मविष्णुशिवाद्यैश्च पूजितं वन्दितं स्तुतम्
निर्लिप्तं साक्षिरूपं च निर्गुणं प्रकृतेः परम्
इदं ते कथितं ध्यानं स्तोत्रं च कवचं मुने