धर्मदत्तेन स्तोत्रेण तुष्टाव परमेश्वरम्
हिमालय उवाच
त्वं शिवः शिवदोऽनन्तः सर्वसंहारकारकः
प्रकृतः प्रकृतीशश्च प्राकृतः प्रकृतेः परः येषु रूपेषु यत्प्रीतिस्तत्तद्रूपं बिभर्षि च
सूर्यस्त्वं सृष्टिजनक आधारः सर्वतेजसाम्
वायुस्त्वं वरुणस्त्वं च त्वमग्निः सर्वदाहकः
मृत्युञ्जयो मृत्युमृत्युः कालकालो यमान्तकः ।। 4.38.
वेदस्त्वं वेदकर्ता च वेदवेदाङ्गपारगः
मन्त्रस्त्वं हि जपस्त्वं हि तपस्त्वं तत्फलप्रदः
अहो सरस्वतीबीजं कस्त्वां स्तोतुमिहेश्वरः
तत्रोवास तमाबोध्य चावरुह्य वृषाच्छिवः
मुच्यते सर्वपापेभ्यो भयेभ्यश्च भवार्णवे
भार्याहीनो लभेद्भार्यां सुशीलां सुमनोहराम्
राज्यभ्रष्टो लभेद्राज्यं शंकरस्य प्रसादतः
गभीरेऽतिजलाकीर्णे भग्नपोते विषादने
सर्वतो मुच्यते स्तुत्वा शंकरस्य प्रसादतः
इति स्तुत्वा हिमगिरिर्वसतः शङ्करस्य च
मधुपर्कादिकं तस्मै प्रददौ भक्तिपूर्वकम्
तदा तत्र समागत्य मेनका स्त्रीगणैः सह
ईषद्धास्यप्रसन्नास्यं वसन्तं व्याघ्रचर्मणि
यथाऽऽकाशे तारकाणां द्विजराजं विराजितम्
विहाय वार्द्धकावस्थां दधतं नवयौवनम्
कामं कामातुराणां च सतीनां च सुतं यथा
शक्तिस्वरूपं शाक्तानां सौराणां सूर्यरूपिणम्
कालकालसमं मृत्योर्मृत्युमृत्यु भयानकम्
सर्पाः सुंदरमाल्यानि कस्तूरी या विषप्रभा 4.39.
सुचार्वी मालतीमाला गंगाधारा मनोहरा
एकीभूतं पंचवक्त्रं नेत्रयुग्माब्जशोभितम्
बंधुजीवविनिंद्यैकमोष्ठाधरमनोहरम्
सद्यो व्यतिक्रमं सर्वं महेशस्य महेश्वरि