चारुचम्पकवर्णाभं स्तनयुग्मं मनोहरम्
मध्यं मनोहरं क्षीणं निम्ननाभिस्थलोज्ज्वलम्
रम्भास्तंभविनिंद्यैकमूरुयुग्मं मनोहरम्
स्थलपद्मप्रभामुष्टपदयुग्मं मनोहरम्
दधतं रत्नमञ्जीरं राजहंसानुकारि च
करं सुकोमलतरं सुन्दरं कनकप्रभम्
बिभ्रत्सद्रत्नमुकुरं लीलाकमलमुज्ज्वलम् 4.38.
दृष्ट्वा स्वरूपमतुलं दध्यौ शङ्करमीश्वरम्
पितरं मातरं बन्धुं साध्वीवर्गं सहोदरम्
अथ शैलेश्वरस्तत्र ददर्श चन्द्रशेखरम्
दधतं संस्कृतां मालां जपन्तं मम नामकम्
वृषभस्थं शूलपाणिं सर्वभूषणराजितम्
शुद्धस्फटिकसंकाशं व्याघ्रचर्मधरं परम्
पञ्चवक्त्रं त्रिनयनं सूर्यकोटिसमप्रभम्
शिववामे महाकालं दक्षिणे नन्दिकेश्वरम्
वेतालान्क्षेत्रपालांश्च भैरवान्भीमविक्रमान्
जैगीषव्यं देवलं च काणादं गौतमं तथा 4.38.
जाजलिं करखं कर्णं लोमशं सूर्यवर्चसम्
शातातपं पारिभद्रमष्टावक्रं मरुद्भवम्
मूर्ध्ना निपत्य भूमौ स दण्डवत्संपुटाञ्जलिः ननाम चाश्रुनेत्रः स पुलकाञ्चितविग्रहः
धर्मदत्तेन स्तोत्रेण तुष्टाव परमेश्वरम्
हिमालय उवाच
त्वं शिवः शिवदोऽनन्तः सर्वसंहारकारकः
प्रकृतः प्रकृतीशश्च प्राकृतः प्रकृतेः परः येषु रूपेषु यत्प्रीतिस्तत्तद्रूपं बिभर्षि च
सूर्यस्त्वं सृष्टिजनक आधारः सर्वतेजसाम्
वायुस्त्वं वरुणस्त्वं च त्वमग्निः सर्वदाहकः
मृत्युञ्जयो मृत्युमृत्युः कालकालो यमान्तकः ।। 4.38.
वेदस्त्वं वेदकर्ता च वेदवेदाङ्गपारगः
मन्त्रस्त्वं हि जपस्त्वं हि तपस्त्वं तत्फलप्रदः
अहो सरस्वतीबीजं कस्त्वां स्तोतुमिहेश्वरः