चकार मालामस्थ्नां च भस्मना तनुलेपनम्
सुषाव मेना तां देवीमतीव सुमनोहराम्
गुणप्रसूर्गुणान्सर्वान्सर्वरूपान्बिभर्त्ति सा
बभूव वर्द्धमाना सा शुक्ले चन्द्रकला यथा
बभूवाकाशवाणी च तां संबोध्य जगत्प्रसूम्
विनेश्वरं न तपसा प्राप्ता हि गर्भसम्भवम्
मम जन्मान्तरीयं च भस्मास्थि च बिभर्ति यः
यो विदग्धश्च ब्रह्माण्डं बभ्राम मम शोकतः 4.38.
दक्षयज्ञं यो बभञ्ज मम हेतोः कृपानिधिः
या यस्य पत्नी यो यस्या भर्ता प्राक्तनतः पुरा
सर्वरूपगुणाधारं मत्वा स्वमतिमानतः
सुन्दरीषु च सर्वासु मत्तो नास्त्येव सुन्दरी
रूपयौवनवेषाणां पुमान्ग्राही स्वयोषिताम्
हृदीति मत्वा गिरिजा तस्थौ हिमगिरेर्गृहे
एतस्मिन्नन्तरे तूर्णं दूतः शैलेन्द्रसंसदि
दूत उवाच आजगाम महादेवः सगणो वृषवाहनः
सिद्धिस्वरूपं सिद्धेशं योगीन्द्राणां गुरोर्गुरुम् 4.38.
परमात्मस्वरूपं च सगुणं निर्गुणं विभुम्
शैलो दूतवचः श्रुत्वा समुत्तस्थौ मुदाऽन्वितः
देवी दूतवचः श्रुत्वा प्रसन्नवदनेक्षणा
चकार वेषमतुलं दधार वस्त्रमुत्तमम्
पारिजातप्रसूनानां मालां चन्दनसंयुताम्
रत्नसिंहासनस्था सा ददर्श दर्पणे मुखम्
आरक्त नेत्रयुगलं निर्मलाञ्जनसंयुतम्
सुकोमलौष्ठयुगुलं ताम्बूलरागसंयुतम्
रत्नकुंडलदीप्त्या च गंडस्थलविराजितम्
अत्यनिर्वचनीयं च दन्तपंक्तिमनोहरम् 4.38.
गजमुक्तासमायुक्तं सुचारुनासिकोत्तमम्
मालतीमाल्यसंयुक्तकबरीभारसंयुतम्
तप्तकाञ्चन वर्णाभं चारुवक्षःस्थलोज्ज्वलम्