बिभर्ति देहं सततं तव सौभाग्यवर्द्धनम्
अपूर्वं तव नैवेद्यं जन्ममृत्युजराहरम्
लिङ्गोपरि च यद्दत्तं तदेवाग्राह्यमीश्वर
इत्येवमुक्त्वा सा देवी देहं त्यक्तुं समुद्यता 4.37.
शंकर उवाच ममापराधमखिलं क्षन्तुमर्हसि सुन्दरि
मां भृत्यं तपसा क्रीतं कृपां कुरु ममोपरि
अहो गोलोकनाथस्थ गुणातीतस्य निर्गुणे
साकारे च निराकारे नित्ये स्वेच्छामये प्रिये
सर्वबीजस्वरूपे च महामाये मनोहरे ४५ इच्छैव श्रीहरेः साक्षान्नाहं दातुमपि क्षमः
इत्येवमुक्त्वा पुरतस्तस्थौ च चन्द्रशेखरः
इत्येवं पार्वतीस्तोत्रं शङ्करेण कृतं पुरा
मित्रभेदो भवेद् दूरं तत्संम्प्रीतिर्भवेत्पुरा
श्रुत्वा प्रतिज्ञां नाथस्य परितुष्टा बभूव सा 4.37.
स्नात्वा संपूज्य भक्त्या च सुरमिष्टं च निर्गुणम्
शिवः स्नात्वा च संपूज्य ब्रह्मज्योतिः सनातनम्
गत्वा सर्वमहं भुक्त्वा तस्मै दत्त्वाऽभिवाञ्छितम्
भुक्त्वाऽवशेषं सा देवी सह भर्त्रा मुदाऽन्विता
इत्येवं कथितं सर्वं त्वया पृष्टं सुरेश्वरि
श्रीकृष्ण उवाच अधुना श्रूयतां मत्तो दुर्गादर्पविमोचनम्
तेजसा सर्वदेवानामाविर्भूय जगत्प्रसूः
निहत्य दानवेन्द्रांश्च ररक्ष देवताकुलम्
पिनाकपाणिं जग्राह सा देवी सुरसाधनम्
दक्षेण सार्द्धं देवेन बभूव शिवशत्रुता
दक्षश्चकार यज्ञं च तत आगत्य कोपतः
सस्त्रीका देवताः सर्वा आजग्मुर्दक्षमन्दिरम्
सती पतिं च मोहेन बोधयामास यत्नतः
आजगाम पितुर्गेहं दर्पात्तस्य विनाऽऽज्ञया
न हि संभाषणं चक्रे वाङ्मात्रेण पिता च ताम् 4.38.
एवं प्रिये निगदितं सतीदर्पविमोचनम्
लेभे जन्म सती शीघ्रं जठरे शैलयोषितः